________________
१७४
कातन्त्रव्याकरणम् तद्व्यवच्छित्तये अक्ष्णेति प्रयुज्यते ? सत्यमेतत् । किन्तु सामान्योपक्रमे विशेषः प्रयुज्यते । अन्यथा ‘अक्ष्णा' इत्युक्ते न ज्ञायते किमनेन विवक्षितम् इति काण इत्युच्यते । यथा 'द्वौ घटावानय' इति काणोऽक्ष्णेति प्रयोगो दुष्ट एव ||३१६।
[क० च०]
कुत्सि० । अत्र "येनाङ्गविकारः" (अ० २।३।२०) इति पाणिनिः। अत्र अङ्गशब्दः शरीरवृत्तिरिति काशिका । येनावयवेनाङ्गस्य शरीरस्य कुत्सा द्योत्यते ततस्तृतीयेत्यर्थः । येनेति करणे तृतीया हेतौ वा । विकार इत्यङ्गस्य हीनाधिकभाव इत्यर्थः । तेन ‘अक्ष्णः पुष्पम्, पादस्य स्फोटः' इत्यादौ न तृतीया शरीरसमुदायस्याङ्गस्य विकाराप्रतीतेरिति ।एतदनुसंधानेनैवास्मत्सूत्रमपि व्याख्येयम् । तथाहि,टीकायां भिन्नाधिकरणे सप्तमीयम् ।कुत्सितशब्दोऽत्राङ्गपदसान्निध्यात् कुत्सिताङ्गिवचनः, अतः कुत्सितेऽङ्गिनि गम्यमानेऽङ्गे वर्तमानाल्लिङ्गात् तृतीया भवति । अर्थाद् यस्याङ्गस्य धर्मेणाङ्गिनः कुत्सा गम्यते तत एव तृतीयेति सूत्रार्थः।
नन्वेवं सूत्रार्थे 'खञ्जस्य पादः' इत्यत्र पादशब्दात् तृतीया कथं न स्यादित्याह - इहापि षष्ठीवदप्रधानादेवेति । लिङ्गार्थमात्रे प्रथमैवास्ति बाधिकेति भावः । कुलचन्द्रस्तु, नन्वङ्गमवयवस्तस्मिन् कुत्सिते तृतीया चेत्, अक्षि काणम् इत्यत्रापि स्यादित्याह - इहापि षष्ठीवदप्रधानादिति । अत एव लिङ्गार्थमात्रे प्रथमैवास्तीति वक्ष्यति इत्याचष्टे । ननु कथम् अक्ष्यादीनां गौणत्वम् इत्याह - यदीत्यादि । अक्ष्यादीनामप्राधान्यमिति विशेषणत्वादिति भावः ।।३१६।
[समीक्षा]
जिस अङ्ग (=अङ्गवाची शब्द) से अङ्गी (शरीर) की निन्दा की जाए, उससे तृतीया विभक्ति का विधान दोनों ही आचार्यों ने किया है । पाणिनि का सूत्र है – “येनाङ्गविकारः" (अ० २।३।२०)। शरीर के किसी अङ्ग में विकार पैदा हो जाने से उसकी निन्दा ही होती है । अतः पाणिनीय 'विकार' शब्द की अपेक्षा कातन्त्रीय 'कुत्सा' शब्द का पाठ अधिक स्पष्टावबोधक है।
[विशेष वचन] १. अङ्गशब्दो वा समुदायार्थः (दु० टी०)। २. काणादयो हि गुणवचनास्तद्वति वर्तन्ते (दु० टी०)।