________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
३३९
विशेषणत्वात् पूर्वनिपात एव प्राप्नोति । ततश्च ‘काणाक्षिः' इति प्रयोगः स्यात् ? सत्यम् । अत्राक्षिपदेन लक्षणयाऽक्षिसम्बन्धीत्युच्यते। काणशब्देन काणत्वं गुणः । ततश्चाक्षिसंबन्धी काणोऽस्येत्यर्थे उभयोर्गुणशब्दत्वात् कृपणपटुरित्यादिवत् कामचारेण परनिपात इति । स्तुतिनिन्दानिमित्तम् इत्यादि। स्तुतौ निन्दा स्तुतिनिन्दा, सैव निमित्तं यस्याधिकार्थवचनस्य तत् तथा । स्वभावसिद्धस्तुतौ निन्दार्थं काकपेयत्वेनारोपितोऽर्थो यस्मिन् काकपेय इति वचने निर्गलितार्थः । “अन्नेन व्यञ्जनम्" (अ० २।१।३४) इति पाणिनिः। अन्नेन व्यञ्जनं समस्यते इत्यर्थः । अन्नपदेनात्र खरविषदद्रव्यभिन्नमदनीयमुच्यते । व्यज्यते उपस्क्रियतेऽनेनेति व्युत्पत्त्या व्यञ्जनशब्देनान्नभक्षणोपकारकमुच्यते । एतेन ‘जलौदनम्' इत्यपि भवतीति रक्षितः ।
"भक्ष्येण मिश्रीकरणम्" (अ०२।१।३५) इत्यपरं सूत्रम् । भक्षशब्दो यद्यपि घञन्तो यौगिकाभ्यवहार्यमात्रवृत्तिः, तथापि रूढ्या खरविषदाभ्यवहार्यद्रव्ये वर्तते । खरं दृढं पिष्टकादि, विषदं परस्परासंबद्धम् । अमिश्र मिश्रं क्रियतेऽनेनेति मिश्रीकरणम्, तेनापिण्डितद्रव्येण पिण्डीकरणयोग्यस्य गुडादेः समास इति श्रीपतिः। ब्राह्मणार्थ इत्यादि । ननु वाक्ये अर्थशब्देन चतुर्थ्यर्थः कथ्यते, ततश्चोक्तार्थत्वात् चतुर्थ्यभावे कथं चतुर्थीसमास इति उच्यते । एतदेवाह - ब्राह्मणायायमित्यादि। अर्थपदेन विग्रह इति । ननु अर्थपदेन विग्रहवाक्ये कर्तव्येऽपि अर्थशब्दसमानार्थशब्देनैव वाक्यार्थो दर्शयितुं युज्यते । न हि अर्थशब्दार्थ इदम्-शब्देनाभिधातुं पार्यते ।अर्थशब्दस्य च प्रयोजनवाचित्वात् । इदम्-शब्दस्य च स्वरूपार्थत्वात् ? सत्यम् । ‘ब्राह्मणार्थः पूपः' इत्यादौ समासे प्रयोजनस्वरूपार्थ एवार्थशब्दः स्वभावात् प्रयोजनस्वरूपचतुर्थ्यर्थस्तु समासेनैवोच्यते । तेन 'ब्राह्मणार्थं पयः' इत्यस्य ब्राह्मणप्रयोजनकम् इदं पय इत्यन्वयबोधः । वाक्यनिवृत्ताविति ।अर्थशब्देन चतुर्थ्यन्तस्य वाक्यस्य निवृत्तावित्यर्थः । सर्वलिङ्गता न वक्तव्या ।
पाणिन्यनुसारिणोऽपि सर्वलिङ्गतार्थमभिधानमेवाश्रयन्तीति भावः । पञ्चमीत्यादि । "पञ्चमी भयेन" ( अ० २। १।३०) इति पाणिनिः। भयवाचिना परपदेन पञ्चमी समस्यते इत्यर्थः । भयेति धातुविशेषनिर्देशात् 'वृकात् त्रस्तः' इत्यादौ न समास इति विवक्षितम् । अत्र पञ्चमीति योगविभागबलाद् निर्गतशब्देनापि समासः । तथा "अपेतापोढमुक्तपतितापत्रस्तैरल्पशः" (अ० २।१।३८) इति परसूत्रम् । एभिः परपदैः