________________
३३८
कातन्त्रव्याकरणम् दर्थेऽपि समस्यते । ईषदुष्णं कोष्णम् ।प्रादयो गताद्यर्थे प्रथमया । प्रगत आचार्यःप्राचार्यः प्रान्तेवासी प्रवासी । दुनिन्दायाम्-दुष्पुरुषः । स्वती पूजायाम् । सुपुरुषः, अतिपुरुषः इत्यादयः । ऊर्यादयस्तु नाम्नां युक्तार्थत्वात् समस्यन्ते तत्पुरुषश्चाभिधानात् । ऊरीकृत्य, ऊररीकृत्य | तथाऽन्येऽपि यप्समासविधौ दर्शयिष्यन्ते ।। ३४५ ।
[क० च०]
विभक्तयः। ननु 'चैत्रं शोभनं प्राप्तः' इत्यत्र समानाधिकरणयोस्तत्पुरुषः कथन्न भवति चेत्, नैवम् । श्रितादिभिरेव समासस्य विधानात् । तर्हि 'पण्डितस्य सूत्रकारस्य धनम्' इत्यत्रापि स्यात् षष्ठीसमासः विशेषाभावात् ? सत्यम्। 'द्वितीयाद्याः' इति सिद्धे यदिह विभक्तिग्रहणं तद् यदपेक्षया विभक्तयस्तेनैव परपदेन समास इति श्रुतव्याख्यानार्थम् । अत्र तु सूत्रकारादिपरपदापेक्षया पण्डितस्येत्यत्र न षष्ठी, किन्तु धनपदसंबन्धादिति । ननु परपदेनेति सिद्धे किमिह नामग्रहणेन | न च वक्तव्यम् – कटं करोतीत्यादौ आख्यातिकपरपदेन सभासो भविष्यतीति “नाम्नां समासः' (२।५।१) इत्यनेन स्याद्यन्तानां समाससंज्ञाविधानस्योक्तत्वाद् ? सत्यम् अनुवादार्थमवश्यं कर्तव्यं समस्यन्त इति पदम् । ततश्च नामग्रहणमन्तरेणाख्यातिकपरपदेन समासोऽनेन विधीयते । “नाम्नां युक्तार्थः" (२।५।१) इत्येन स्याद्यन्तानां समाससंज्ञाविधानस्योक्तत्वादित्यर्थ : कथं न स्यादित्याशङ्कानिरासार्थमेव नामग्रहणमिति । पदग्रहणं तु अनुष्टुप्पूरणार्थमेव ।
वररुचिमतानुसारिणस्तु 'नाम्ना' इत्यनेन परशब्दस्य श्रेष्ठार्थः परिकल्प्यते । तेन नाम्ना परपदेन प्रसिद्धपदेन इत्यर्थ आयातः, प्रसिद्धश्च स एव येन सह पूर्वाचार्यः समासो विधीयते इति, तेन क्वचित् पूर्वपदेनापि द्वितीयादीनां समासः । यथा - अतिखट्वः, अवकोकिलम् इत्याहुः । 'कष्टं श्रितः' इत्यादीति । ननु एतद्वचनमन्तरेण सामान्यविधानादन्यत्रापि चेत्, स्यादेव । तर्हि कुत्र स्यादित्याह- तथा हीति। "तृतीया तत्कृतार्थेन गुणवचनेन" ( अ० २।१।३०) इति पाणिनिः । अस्यार्थः- तत्कृतेति लुप्ततृतीयान्तं पदम् । तेन तृतीयान्तप्रतिपाद्यार्थेन कृतः जनितो यो गुणवचनस्य प्रवृत्तिनिमित्तार्थः, स तत्कृत्गुणवचनप्रवृत्तिनिमित्तार्थः । अर्थे कार्यासंभवात् तद्वाचिना गुणवचनेन परपदेनार्थपदेन च तृतीया समस्यते इति । अक्षि काणमस्येति बहुव्रीहिणा भवितव्यमेवेति । ननु अक्षिशब्दस्य द्रव्यवचनस्य सन्निधौ काणशब्दस्य गुणवचनस्य