________________
कातन्त्रव्याकरणम्
पञ्चमी समस्यते । ‘अल्पश:' इति पञ्चम्यन्तस्यापि अल्पत्वविवक्षायामित्यर्थः । एतत् सर्वं न वक्तव्यम् इत्याह-भयभीतेत्यादि । षष्ठीत्यादि । " पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन” (अ० २ । २ । ११ ) इति पाणिनिः । " न निर्धारणे " ( अ० २।२।१० ) इत्यस्मान्नकारोऽनुवर्तते । पूरणप्रत्ययान्तादिना षष्ठी न समस्यते इत्यर्थः । गुणशब्देनात्र वैशेषिकशास्त्रसिद्धा रूपरसगन्धस्पर्शशब्दस्वरूपा गुणा गृह्यन्ते, न संख्यादयः, शतसहनान्ता निष्कादिवचनात् । यद्यनेनात्र समासनिषेधो भविष्यति तदा कथं शताद्यन्तस्य संख्याप्रतिपादकस्य लिङ्गनियमार्थं वचनमुपपद्यते । एतन्मतेऽपि तत्स्थैर्गुणैः समस्यते, न तु तद्विशेषणैरिति प्रतिषेधेन वक्तव्येन गुणमात्रवाचकैः शब्दैः समासस्य विधीयमानत्वात् पारिशेष्येणात्र गुणशब्देन गुणिवाचक शुक्लादिशब्दो गृह्यते इति । नापि धर्मवचनोऽत्र गुणो गृह्यते । “वर्तमानसामीप्यम्” (अ० ३।३।१३१) इति महाजनसूत्रे समासदर्शनात् । तेन 'बुद्धिवैगुण्यम्, मुनिचापल्यम्, वस्त्रपीतत्वम्, अक्षरगौरवम्' इत्यादयः सिध्यन्ति । सुहितार्थ इति तृप्त्यर्थ इत्यर्थः । सदिति शन्तृङानशोः संज्ञा । समानाधिकरणमिति शर्ववर्मणः सूत्रकारस्य कृतिरिति ।
३४०
ननु कथमत्र षष्ठीसमासो निषिध्यते कर्मधारयस्यानिवार्यत्वेन निर्विशेषात् । न च कर्मधारये विशेषणं पूर्वं निपतति इति विशेषोऽस्तीति वाच्यम् । “उपसर्जनं पूर्वम्” (अ० २।२।३०) इति सामान्यवचनेन षष्ठीसमासेऽपि तुल्यत्वात् । नैवम्, 'जरतो वैयाकरणस्य कृतिः' इत्यादौ षष्ठीसमासे उभयोरेव विशेषणत्वाद् वैयाकरणशब्दस्यापि पूर्वनिपातप्रसङ्गः स्यात् कर्मधारये तु पूर्वकालेत्यादिना 'जरद्वैयाकरण:' इत्येव स्यादिति भेदः । एतत्सूत्रस्य व्यभिचारमाह - 'आत्मषष्ठः' इत्यादि । छात्रस्येत्यादीति सापेक्षत्वादिति । अयमभिप्रायः - गृहपदसम्बन्धेन छात्रशब्दात् षष्ठीविधानेन गृहस्य विशेषणेनोच्चैरित्यनेन संबन्धो नास्तीति परकालापेक्षत्वादिति । क्त्वाप्रत्ययस्य परकालापेक्षित्वेन धनादिपदापेक्षितेन षष्ठ्यन्तेन ब्राह्मणशब्देन क्त्वाप्रत्ययस्य संबन्धाभावाद् युक्तार्थता नास्तीति भावः । तेषामपि गुणस्थतेति तेषां शौक्ल्यादीनां गुणस्थता केवलगुणवाचकता । पटशौक्ल्यादिवदिति । यथा पटशौक्ल्यम् इत्यत्र समासस्तथा बलाकाशौक्ल्यमित्यत्रापि । तेन केवलगुणस्थत्वेन हेतुना समास इष्यते इति संबन्धः । तद्विशेषणैरित्यादि । ते गुणा एव वाच्यत्वेन विशेषणानि येषां शब्दानां ते तद्विशेषणाः । गुणयोगाद् यथा गुणिनि शुक्लादयः शब्दा वर्तन्ते तदा शब्दैर्गुणा विशेषणतयाऽभिधीयन्ते इत्याह – गुणगुणिस्थैरिति ।
-