________________
५०५
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः [दु० वृ०]
अद्यादेः सर्वनाम्नो बहोश्च पञ्चम्यन्तात् तस् प्रत्ययो भवति वा । सर्वस्मात् सर्वतः । यस्माद् यतः । तस्मात् ततः। बहुभ्यो बहुतः । अट्यादेरिति किम् ? द्वाभ्यां भवतः । उगवादितः प्रयोगतश्चेति ज्ञापकादसर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्यःग्रामात्, ग्रामतः ।हाग्रुहोरवधौ न स्यात्-युष्मद्धीयते, सार्थाद्धीनः, पर्वतादवरोहति ।।३९४|
[दु० टी०]
पञ्चम्या०। पञ्चप्याः स्थाने तसिति न देश्यम्, "विभक्तिसंज्ञा विज्ञेयाः" (२/६/२४) इति वचनात् । अन्यथा तदादेशस्तद्वदिति विभक्तित्वं सिद्धम् । अथ षष्ठ्येवास्तां को दोषः । सर्वेभ्यः सर्वतः इति धुट्येत्वं स्यात् । “उगवादितः" (२/६/११) इत्यादि । 'ज्ञापकज्ञापिता विधयो यनित्याः' (का० परि०६०) प्रयोगमनुसरन्तीति अवधावहागृहोरिति स्थितम् । ज्ञापकद्वयेनैतत् सूचितम् -पूर्वाद्यपेक्षया परादयः इत्यवधिरेव । दिगादिपञ्चमी तु प्रपश्चार्थ इत्युक्तमेव । तथा च भट्टवचनम् - 'न हि स्मरणतो यत् प्राक् तत् प्रत्यक्षमितीष्यते' । त्वत्तो मत्तो युष्पत्तोऽस्मत्त इत्यवधिविवक्षया भवत्येव । 'सर्वतो हेतो_यते, सर्वतो हेतोरवरोहति' इति "सर्वनाम्नः सर्वा विभक्तयो हेतौ" इत्यनेन पञ्चमीवचनात् सिद्ध एव तस् । हाग्रुहोरित्यादि । ननु च 'नाकर्तृत्वं कर्म' इति कथं 'हीयते, हीनः' इत्यत्र कर्मत्वम् ? सत्यम् । यो हि सार्थाद्धीयते सोऽसामर्थ्यात् सार्थेन त्यज्यते । यदि सार्थस्तमपेक्षते नासौ ततो हीयते । अवश्यं चैतदभ्युपगन्तव्यम् । अन्यथा कथं सार्थः कारकं स्यात् । यद्येवमपादानसंज्ञाकालेऽपि स्वातन्त्र्यं कर्तृसंज्ञानिबन्धनं साथै स्यात् । तदा "तेषां परमुभयप्राप्तौ" (२/४/१६) इति परत्वात् कतृसंज्ञैव स्यात् ।
नैवम्, हीयते इति जहातेः कर्मकर्तर्यात्मनेपदं सार्थेन त्यज्यमानः कर्म भवति, यदा तु त्यागे स्वयमेव हीयमानः कर्तृत्वेन विवक्ष्यते तदा कर्ताऽयमिति । 'हीनः' इत्यकर्मकत्वात् कर्तरि क्तः । हीनो भ्रष्टः, कुतः ? सार्थादित्यर्थः । एवं सति कर्मविवक्षा निष्फलैव । सूत्रकारोऽयम् ‘अवधावहागृहोः' इति नाद्रियते । येषां हेतौ पञ्चमीति मतं ततोऽपि शिष्टप्रयुक्तो दृश्यते -
"संस्थानेन घटादीनां ब्राह्मणादेस्तु योनितः। आचारतः क्षत्रियादेः" इत्यादयः।