________________
२५२
कातन्त्रव्याकरणम्
[वि० प०]
सोमपम् इत्यादि । सोमं पिबतीति “आतो मनिन् क्वनिन् वनिन् विच्" (४।३।६६) । तथा सेनां नयतीति “सत्सूद्विष०" (४।३।७४) इत्यादिना क्विम् । यवं लुनातीति “क्विप् च" (४।३।६८) इति क्विप् । 'अतिरि, अतिनु' इति । रायमतिक्रान्तं नावमतिक्रान्तं कुलम् इति विग्रहे “सन्ध्यक्षराणाम् इदुतौ हस्वादेशे" (कात० प० ४३) इत्यैकारौकारयोरिकारोकारौ ह्रस्वौ । ननु ह्रस्वादयो हि स्वराणामेव धर्मा इति सामर्थ्यात् स्वर एव ह्रस्वो भविष्यति किं स्वरग्रहणेन । न च तदन्तविशेषणं प्रयोजनम्, तस्य सामर्थ्यलब्धेनापि स्वरेण सिद्धत्वादिति ? सत्यम् । योगविभागार्थम् इत्याह – स्वरो ह्रस्व इत्यादि । 'स्वरो ह्रस्वः' इत्येकयोगः, 'नपुंसके' इति द्वितीयः । सामान्येन सिद्धे यत् पुनर्वचनं तत् पूर्वविधेर्लक्ष्यानुरोधार्थं सूचयतीत्याह – गोरप्रधानस्येत्यादि । स्त्रियामादादीनां चेति चकारेणाप्रधानानामन्त्यादीनामपीति समुच्चीयते । 'चित्रा गौर्यस्य , खट्वामतिक्रान्तः, निर्गतः कौशाम्ब्याः' इति विग्रहः । अतिकरभोरूरिति । उपमानसहितसंहितसहशफवामलक्षणपूर्वादूरोरिति ऊविधानार्थं नदादौ गणसूत्रं द्रष्टव्यम् । अतः स्त्रियामादादित्वमस्तीति ह्रस्वः प्रवर्तते । करभस्येवोरुर्यस्या इति । उपमानपूर्वादूङ् | करभोरूमतिक्रान्तः अतिकरभोरुरिति । अत एव स्त्रियामादादीनामिति बहुवचनमाकारेकारोङ्प्रत्ययानां बहुत्वादिति ।। ३३७। ॥इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां द्वितीये नामचतुष्टयाध्याये चतुर्थः कारकपादः समाप्तः॥
[समीक्षा
‘सोमपा (नपुंसक) + सि, सेनानी (नपुंसक) + सि, यवलू (नपुंसक) + सि, अतिरै (नपुंसक) + सि, अतिनौ (नपुंसक) + सि' इस अवस्था में रणनि तथा शर्ववर्मा दोनों ही आचार्य ‘आ-ऐ-औ' को ह्रस्वादेश करके ‘सोमपम्, सेनानि, यवलु, अतिरि, अतिनु' (कुलम्) शब्दरूप सिद्ध करते हैं । पाणिनि का सूत्र है - "ह्रस्वो नपुंसके प्रातिपदिकस्य' (अ० १।२।४७) ।
[विशेष वचन] १. यत्तदोर्नित्यसंबन्धात् स्वर एव निर्दिष्टो वेदितव्य इत्याह - स्वरान्तो ह्रस्वो
भवतीति (दु० टी०)।