________________
नामचतुष्टयाध्याये चतुर्षः कारकपादः स च ह्रस्व : 'स्थानेऽन्तरतमः' (कात० प० १६) इति न्यायात् प्रवर्तते । “सन्ध्यक्षराणाम् इदुतौ हस्वादेशे" (कात० प० ४३) इत्यपि न्याय एव । यद्यपि - ए ऐ कण्ठ्यतालव्यौ,
ओ औ कण्ठ्योष्ठ्यौ, तथापि तालव्यत्वस्य भूयस्त्वात् तालव्य एव प्रत्यासन्नः । कण्ठ्यादप्यकारात् 'कण्ठ्यतालव्यत्वम् इदेदैताम्, कण्ठ्योष्ठत्वम्, उदोदौताम्' इति वर्णसूत्रं पठन्त्येके। तथा चोद्यमिह नास्ति ।
अथ किमर्थं स्वरग्रहणम्, लोकोपचारात् स्वरजात्यपेक्षया ह्रस्वादय एव स्वरग्रहणं व्यवस्थापयन्तीत्युक्तमेव । तस्मात् तदन्तविधिः सिद्ध एव ? सत्यम् । स्वरग्रहणसामर्थ्याद् योगविभागोऽपि प्रतिपत्तव्य इत्याह – 'स्वरो ह्रस्वः' इत्येकयोगः, ततो 'नपुंसके' इत्यपरयोगः | पुनर्वचनं पूर्वविधैर्लक्ष्यानुसारार्थम् इत्याह - गोरप्रधानस्येत्यादि । चित्रा गावो यस्य | खट्वाम् अतिक्रान्तः, निर्गतः कौशाम्ब्याः । करभोरुमतिक्रान्त इति विग्रहः । अप्रधानस्येति किम् ? अगौः, सुगौः, राजकुमारी । अन्तस्येति किम् ? 'गोकुलम्, खट्वाप्रियः, राजकुमारीपुत्रः' इति | कुमार्या यथा परपदमपेक्ष्याप्राधान्यं तथा अनन्त्यत्वमपि समासत्वात् पूर्वपदमपेक्ष्य च प्राधान्यमिति। "स्त्रियाम् आदादीनां च" इति वचनात् कृततदन्तस्य स्त्रियां न भवति-अतिश्रीः, अतितन्त्रीः, अतिलक्ष्मीः । कथं 'बहुकुमारीकः, प्रियवृषलीकः ? यथा प्रियं ग्रामणि कुलं यस्य 'प्रियग्रामणिकः, प्रियसेनानिकः' इति नपुंसके ह्रस्वः स्यात् तथायमपि प्राप्नोति, नैवम् । अन्तरतमः कः समासपदावयवत्वात् तादर्थ्यात् ताच्छब्दयमिति ।
अथवा किं नु एतेन योगविभागादिष्टसिद्धिरिति । तथा ईयनेसोर्बहुव्रीही न भवति - बहुश्रेयसी, बहुप्रेयसी राजेति । तद्धितार्थद्विगौ स्त्रीप्रत्ययस्य निवृत्तिरभिधानात् पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः, तथा दशपटुः । पञ्चभिरिन्द्राणीभिः क्रीतः(पञ्चेन्द्राण्यो देवता यस्य) पञ्चेन्द्रः । एवं दशेन्द्रः । 'सनियोगशिष्टानामन्यतरापाये उभयोरप्पपायः' (व्या० प० वृ० ४१) इत्यनागमो निवर्तते । गोणीसूच्योस्तु ह्रस्व एवाप्रधानलक्षण इति। पञ्चभिर्गौणीभिः क्रीतः पञ्चगोणिः, पञ्चसूचिः । यद्येवम्, अप्रधानलक्षणो हस्व इह लोकोपचारात् सिद्ध एव, किं योगविभागेन ? सत्यम् । स्वरग्रहणं तदन्तप्रतिपत्त्यर्थमेव ।। ३३७।
॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां द्वितीये नामचतुष्टया याये चतुर्षः कारकपादः समाप्तः॥