________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
केन निवार्यते, न हि पेषणं धानासंबन्धि न भवति । अज्वरिसंताप्योरिति कश्चिद् आह । तदयुक्तम्, इष्यते एव षष्ठीत्याह - चौरस्येत्यादि । तथा चाह चन्द्रगोमी'ज्वरिसंताप्योरपि संबन्धविवक्षायां षष्ठी भवति' इति ।। ३२५
१९९
[ क० च० ]
हिंसा० । हिंसानामिति सिद्धेऽर्थग्रहणं सुखार्थम् | हिंसाशब्दस्यार्थपरत्वे संदेहाभावात् शब्दपरत्वे लक्षणापत्तेर्बहुवचननिर्देशाच्च । ननु प्राणवियोगफलकव्यापारो हिंसेति प्रसिद्धत्वाद् रुजार्थानां प्रयोगे षष्ठी नास्त्येव, कथम् अज्चरेरिति प्रतिषेध इत्याह – अज्वरेरिति । यद् वा पाणिनिना " रुजार्थानां भाववचनानामज्वरेः” इति “जासिनिप्रहणनाटिक्लाथिपिषां हिंसायाम्" (अ० २। ३ । ५४,५६ ) इति सूत्रद्वयेन रोगार्थहिंसार्थयोः प्रयोगे षष्ठी विधीयते । तदभावादस्मन्मते रुजार्थप्रयोगे कथं स्याद् इत्याह- हाज्वरेरिति । ज्वरिप्रतिषेधात् प्राणिपीडामात्रं हिंसेति गम्यते । तथाहीत्यादि । अथ ज्वरिणा योगेऽपि यदि षष्ठी तदा कथं चौरं ज्वरयतीति प्रत्युदाहृतम्, अज्चरेरित वर्जनं वा किमर्थम् ? सत्यम् | अज्वरेरिति प्रतिषेधो हिंसायाम् इत्युक्ते प्राणवियोगार्थस्यैव ग्रहणे रोगार्थस्य न स्यादिति रोगार्थस्यापि ग्रहणार्थः । प्रत्युदाहरणं पुनः परमतानुसारेणैव वृत्तौ प्रदत्तम् ।
अज्चरेरिति किमितिं वृत्तिः । ननु अज्वरेरिति खण्डने चौरस्य रुजतीत्यादौ कथं स्यात् प्राणवियोगार्थाभावात् ? सत्यम् । अत्र हेमकरः - हिंसायामिति कृते पीडापि हिंसोच्यते, हिंसैव हिंसेति आचष्टे । वस्तुतस्तु पीडायामित्येव सूत्रमास्ताम् । हिंसारुजोर्द्वयोरपि पीडात्वाव्यभिचारात् । ननु “रुजार्थानां भाववचनानामज्वरेः " ( अ० २ । ३ । ५४) इति परसूत्रे रुजार्थानामित्यस्य भाववचनानामिति विशेषणेन किं प्रयोजनम् । रुजार्थानां भाववचनत्वाव्यभिचारादित्याह - भाववचनानां भावकर्तृकाणामित्यर्थः इति । वक्त वचनः।“कृत्ययुटोऽन्यत्रापि (४|५|९२ ) इति वचनात् कर्तरि युट् । अत्र वचनशब्देन प्रकृत्यर्थं परित्यज्य प्रत्ययार्थः कर्तेवाख्यायते । तेन भावः क्रियारूपो वचनः कर्ता येषामिति बहुव्रीहिः ।
एवञ्च परमते 'रावणस्येव रोक्ष्यन्ति कपयो भीमविक्रमाः' इति भट्टिप्रयोगे संबन्ध एव षष्ठी नास्य विषयः । यद् वा कपयो भीमविक्रमाश्च रोक्ष्यन्तीति भावकर्तृत्वमस्त्येवेति भट्टिटीकाकृता सुखार्थमिति । एतेन यत्र संबन्धविवक्षा तत्रैवास्य सूत्रस्य