________________
कातन्त्रव्याकरणम्
१९८ हिंसार्थग्रहणेन रुजार्थानामपि ग्रहणमस्ति । प्राण्युपघातस्य हिंसाया इहापि संभवादित्याविर्भावार्थः। अन्यथा हिंसाशब्दचोदितानामेव ग्रहणं स्यादिति । तेन संबन्धविवक्षायां चौरस्य ज्वरयति कर्कटीत्यपि भवितव्यमेव । तस्माद् रुजार्थानां भावकर्तृकाणां ज्वरिसंतापिवर्जितानां जासिनिप्रहणनाटिक्लाथिपिषां हिंसानामिति नादरयति । चौरस्य रुजति रोगः, दास्या आमयत्यामः इत्यव्यभिचारात् । निप्रशब्दयोर्विगृहीतसमस्तविपर्यस्तयोर्ग्रहणमिष्टमिति । चौरस्य हन्तीत्यपि भवितव्यमेव संबन्धविवक्षया ।।३२५।
[वि० प०]
हिंसा० । इहाज्वरेरिति प्रतिषेधाद् हिंसार्थग्रहणेन रोगार्थानामपि ग्रहणम् । न तु प्राणिवध एव प्रतिषेधस्यानुपपत्तेरिति । अतो रुजार्थधातुप्रयोगेऽप्युदाहरति - चौरस्य रुजति, दास्या आमयतीति । तेन "कजार्थानां भाववचनानामज्वरेः" (अ० २।३।५४) इति न वक्तव्यम् । अर्थान्तरेणैतद्वचनं भाववचनानामेव प्रयोगे कथं स्यात् ।
'चौरस्य रुजति रोगः, दास्या आमयति आमः' इति द्रव्यवचनानामपि प्रयोगे षष्ठी स्यात् । तथा श्लेष्मा पुरुषं रुजति, रुजति कूलानि नदी ? सत्यम् । इहापि संबन्धे षष्ठ्या भवितव्यमेव । तथाहि 'चौरस्य ज्वरयति कर्कटी' इति ज्वरेरपि द्रव्यवचनस्य प्रयोगे षष्ठी भवति, किं पुनरन्यस्येति, न ह्यत्र संबन्धे षष्ठी प्रतिषिद्धा | भाववचनानां भावकर्तृकाणामित्यर्थः । यद्येवम्, कर्मणि संबन्धे वा विहितायाः षष्ठ्या विशेषाभावाद् एतदपि सूत्रमनर्थकम् ? सत्यम् । अनर्थकमेव, किन्तु सुखार्थमेवोक्तम् । तथा "उज्जासिनिप्रहनिनाटिक्लाथिपिषां हिंसायाम्" (अ०२।३।५६) इत्यपि न वक्तव्यम्, हिंसार्थत्वादेव जास्यादिधातुप्रयोगे सिद्धत्वादित्याह - चौरस्येत्यादि ।न चात्र निप्रहनकृतविशेषोऽस्ति । केवलस्यापि हन्तेः प्रयोगे संबन्धविवक्षया षष्ठ्या भवितव्यमेव । 'चौरस्य हन्ति, चौरस्योज्जासयति' इति । जसु हिंसायाम्, जसी ताडने वा चुरादाविनन्तः । इह निप्रशब्दयोर्विगृहीतसमस्तविपर्यस्तयोर्ग्रहणमिष्टम् । उन्नाटयतीति चुरादाविन् । उत्क्लाथयतीति । कथमिदम् 'श्रय क्रय क्लय हिंसाः ' (११५१६) इति घटादौ पठ्यते । घटादयश्च मानुबन्धा इति मानुबन्धानां ह्रस्वं प्राप्नोति ? सत्यम् । उत्क्लथनम् उत्क्लाथस्तं करोतीति इना सिद्धम् । पिनष्टीति । पिष्ल संचूर्णने "स्वराद् रुपादेः परो नशब्दः" (३।२।३६) । इदमपि यथाकथंचित् प्रत्युदाहतम् । इहापि संबन्धे षष्ठी