________________
१७६
कातन्त्रव्याकरणम्
[वि० प० ]
बिशे० । अद्राक्षीदिति । 'दृशिर् प्रेक्षणे ' (१।२८९ ) । “सिजयतन्याम्” (३।२।२४) इति सिच् । “सिचः” (३।६।९०) इतीट् । “सृजिदृशोरागमः " ( ३।४।२५ ) इति अकारागमः, अस्य च दीर्घः । अपश्यदिति । ह्यस्तन्या दिः । “अन् विकरणः कर्तरि” (३ । २ । ३२) इत्यन् । “दृशेः पश्यः” (३ | ६ | ७६) इति पश्यादेशः । वृक्षं प्रतीति सुखार्थं प्रत्युदाहरणम् | अन्यथा “कर्मप्रवचनीयैश्च” (२ |४| २३) इति द्वितीयैवास्ति बाधिकेति कुतस्तृतीयाप्राप्तिः ।
[क० च० ]
विशे० |" इत्थम्भूतलक्षणे तृतीया " (अ०२ । ३ । २१ ) इति पाणिनिः । अस्यार्थः इत्थंशब्द एवम्प्रकारवाची, तं भूतः प्राप्तः इत्थम्भूतः । कञ्चित् प्रकारमापन्न इति यावत् । तस्य लक्षणे परिचायके वर्तमानाल्लिङ्गात् तृतीयेत्यर्थः । तथा च 'शिखया परिव्राजकमपश्यत्' इत्यत्र परिव्राजकत्वं कश्चित् प्रकारः, सामान्यस्य मनुष्यत्वस्य भेदकस्तमापन्नस्य पुरुषस्य शिखैव लक्षणमिति एतदर्थानुसंधानेनैव शर्ववर्मणापि " विशेषणे" इति सूत्रं प्रणीतम् । तथाहि विशेषणं हि व्यवच्छेदकं तच्च द्विविधम् - समानाधिकरणं व्यधिकरणं च । अत्राद्ये नीलमुत्पलमित्यादौ लिङ्गार्थस्याव्यतिरिक्तत्वात् प्रथमैवास्ति बाधिकेति । अत एव लिङ्गार्थमात्रे प्रथमैवेति वृत्तिरपि संगच्छते ।
--
द्वितीयं द्विविधम् – वस्त्वपेक्ष्यं प्रयोक्त्रपेक्ष्यं च । तत्र वस्त्वपेक्ष्यं यथा - ' राज्ञः पुरुषः' इत्यत्र विशेषणं राजा, स च पुरुषपदार्थेन वस्तुना संबन्धाकाङ्क्षयाऽपेक्ष्यते । . तत्र स्वस्वामिसंबन्धविद्यमानत्वात् षष्ठ्येवास्ति बाधिकेति । प्रयोक्त्रपेक्ष्यं यथा - ‘शिखया परिव्राजकमपश्यत्' इत्यत्र परिव्राजकपदार्थेन पुरुषादिवत् शिखा नापेक्ष्यते अविज्ञातार्थत्वात्, किन्तु परिव्राजकपदार्थबुभुत्सया एषां मध्ये कः परिव्राजकः इति सन्देहे वक्तृभिरेव शिखयेति प्रयुज्यते, अतो वक्त्रपेक्ष्यमिति । पारिशेष्यादत्रैवास्य सूत्रस्य विषय इति ।
नन्वत्रापि लक्ष्यलक्षणभावसंबन्धस्य विद्यमानत्वादत्र षष्ठी बाधिकाऽस्तु | 'राज्ञः पुरुषः' इत्यादौ तु वस्त्वपेक्ष्यस्थलेऽस्य सूत्रस्य विषयः कथं न स्यात् ? सत्यम् । तत्र स्वाम्यादिग्रहणसामथ्यदिव 'राज्ञः पुरुषः' इत्यादाववश्यं षष्ठी विधातव्या । ततश्च