________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१७७ दृष्टपरिकल्पनावशात् सर्वत्र वस्त्वपेक्ष्यस्थले षष्ट्याः प्राप्तिः कल्पनीयेति । एतच्च टीकायामपि तच्च (द्विविधम्) विशेषणं यल्लिङ्गार्थस्यान्तरङ्गस्य स्वाम्यादीनां चाविषय इत्युक्तमिति कुलचन्द्राशयः। ननु यदि प्रयोक्त्रपेक्ष्यमेव विशेषणमत्र गृह्यते तदा लक्षण इत्येवास्ताम्, किं विशेषण इति गुरुकरणेन ? सत्यम् ।गुरुकरणं विशिष्टार्थप्रतिपत्त्यर्थम् । तथाहि, विशिष्यते शब्देनोपस्थाप्यते विशिष्टं ज्ञानं जन्यते येन तद् विशेषणम् इति व्युत्पत्त्या विशेषणपदेन कञ्चित् प्रकारम् आपन्नस्य ज्ञापकमुच्यते, तेन 'वृक्षं प्रति विद्योतनम्' इत्यत्र कञ्चित् प्रकारमापन्नस्य वृक्षो न ज्ञापकः किन्तु विद्योतनमात्रस्यैव । एतदेव हृदि कृत्वाह - विशेषण इति किमिति वृत्तिः। नीलमुत्पलम् इति वृत्तिः । ननु कथमिदमाशयते उत्पलस्य कञ्चित् प्रकारमापन्नत्वाप्रतीयमानत्वात् ? सत्यम् । नानाजातीयद्रव्योपस्थितौ कस्योत्पलमिति सन्देहे नीलम् उत्पलस्य परिचायकं भवतीति विवक्षायामेव लिङ्गार्थमात्रे प्रथमैवेति वृत्तिसिद्धान्तः।।३१७।
[समीक्षा]
'जटाभिस्तापसः, शिखया परिव्राजकम् अपश्यत्' आदि स्थलों में विशेष परिचायक लक्षणवाची जटादि शब्दों से तृतीया विभक्ति का विधान दोनों व्याकरणों में किया गया है। पाणिनि का सूत्र है - "इत्थम्भूतलक्षणे" (अ०२।३।२१)। इत्थम्भूत का अर्थ है 'कञ्चित् प्रकारं प्राप्तः' । प्रकार = सामान्य का भेदक, विशेषक। अतः स्पष्टावबोध के लिए कातन्त्रकार ने “विशेषणे" शब्द का उपादान किया है।
[विशेष वचन] १. मन्दमतिबोधनार्थमेव (दु० टी०)।
२. कश्चिद् विशेषणशब्दो लक्षणार्थ इति मन्यते, अनेकार्थत्वाद् धातूनाम् (दु० टी०)।
३. एतदर्थानुसन्धानेनैव शर्ववर्मणापि “विशेषणे' इति सूत्रं प्रणीतम् (क०च०)।
४. विशेषणं हि व्यवच्छेदकम्, तच्च द्विविधम् - समानाधिकरणं व्यधिकरणं च (क० च०)।
५. द्वितीयं (व्यधिकरणं विशेषणम्) द्विविधम् -वस्त्वपेक्ष्यम्, प्रयोक्त्रपेक्ष्यं च (क० च०)।