________________
कातन्त्रव्याकरणम्
तथाहि 'ग्रामाय दत्वा तीर्थं गतः संस्तिष्ठति, तपस्यति वा' इत्यस्य विशेषणक्रियाद्वयकारकयोः परत्वचिन्ता युक्तैव । ननु तथापि " नाव्ययकृद्विधिः क्रियान्तरकारकः” (कात० परि० - का० ९८ ) इति श्रीपतिसूत्रस्य विषयत्वाद् ग्रामायेत्यत्र पञ्चमी प्राप्नोतीति चेत्, नैवम् । कारके हि सिद्धे तस्य सूत्रस्य विषयः । अत्र च परत्वेन तत्कारकत्वमेव निराकृतम् । यद् वा एकस्मिन्नेव कारके उभयकार्यप्राप्तावेव तस्य सूत्रस्य विषयः, न तु कारकभेदे प्रत्यासत्तिन्यायात् । तथा च तस्य सूत्रस्योदाहरणं भोक्तुमोदनस्य पाचकश्छात्र इत्यादि । अत्र भोजनपचनयोरेकस्यैव कर्मकारकस्य ओदनस्य तुम्प्रत्ययनिबन्धनषष्ठीनिषेधे वुण्प्रत्ययनिबन्धनषष्ठीप्राप्ती अव्ययनिबन्धनषष्ठीनिषेधो निषिध्यते ।
११२
प्रकृते तु कारकद्वयप्राप्तौ कथं तस्य विषयः स्यात् । वस्तुतस्तु अपाणिनीयत्वात् स्वकपोलकल्पितं श्रीपतिसूत्रं न साधु । 'ओदनः पचता भुज्यते' इत्यादौ अनव्ययनिबन्धनकार्यस्यापि निषेधदर्शनात् । किञ्च,
अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्तदुत्सङ्गनिषक्तमूर्धा स्मरामि वानीरगृहेषु सुप्तम् ॥ (रघु० १३ | ३५)
इत्यादौ भावे क्तान्तस्य सुप्तमित्यस्य योगेनोक्तार्थता 'स्मरामि' इति मुख्यक्रियायोगे कर्तुरुक्तार्थतेति । तस्मादवश्यमेव गौणमुख्यन्यायः समादरणीयः । ततश्चायमेव न्यायोऽस्तु किं सूत्रेणेति । स च न्यायो 'ग्रामाय दत्वा तीर्थं गतः' इत्यत्र न संभवत्येव, उभयोर्विशेषणत्वाद् इति युक्तिरुक्तैव । त्यजति दण्डं दण्डीति । ननु कथमेतदुदाहरणम्, त्यजनसंबन्धाद् यद्यप्य-पादानं स्यात् तदा त्यजतीति कर्तरि प्रत्ययो न स्यात् ? सत्यम्, इदमपि दूषणान्तरम् । यद् वा एतत्तु प्रथमकक्षायामेवोदाहृतम्, किन्तु 'त्यज्यते दण्डिना दण्डः' इत्येवोदाहरणम् इति ॥ ३०१ |
[समीक्षा]
विविध व्याकरणों में कारकों का क्रम दो प्रकार का देखा जाता है। एक तो - 'अपादान, सम्प्रदान, करण, अधिकरण, कर्म, कर्ता का तथा दूसरा क्रम है'कर्ता, कर्म, अधिकरण, करण, सम्प्रदान, अपादान' का । जहाँ एक ही स्थल में
-