________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१११ युज्यते (सत्यम्) । तत्र व्यक्तौ पदार्थे शास्त्रप्रवृत्तौ प्रतिलक्ष्यं लक्षणस्य व्यापारभेदात् पर्यायेण द्वावपि विधी प्राप्तौ । यथा धातोस्तृजादयो विधीयमानाः पर्यायेण भवन्ति यौगपद्यासंभवात् कर्ता, कारकः, कर्तव्यम्, करणीयमिति । जातौ तु पदार्थे सकृल्लक्ष्ये लक्षणस्य चरितार्थत्वात् अप्रवृत्तिरेवोभयोः प्राप्ता -
सम्प्रदानादयः संज्ञा रुचिधारिविवर्जिताः।
लोकोपचारतः सिद्धाः सुखबोधाय दर्शिताः॥३०१ । [वि० प०]
तेषाम् । ग्रामायेत्यादि । गत इति संबन्धादपादानम्, ग्रामः प्राप्नोति । दानसंबन्धाच्च संप्रदानमिति परं संप्रदानमेव भवति । एवमन्यत्रापि यथायोगं परत्वं वेदितव्यम् । न च वक्तव्यम् – 'पूर्वपरयोः परविधिर्बलवान्' (कलाप०, पृ० २२१-५०) इति परैव संज्ञा भविष्यति, किमनेनेति ।यतः संज्ञासमावेशे तस्याः परिभाषाया व्यापारो नास्तीति । अन्यथा ‘तद् गच्छति, मज्जति' इत्यत्र गकारजकारयोः परत्वाद् धुसंज्ञैव स्यात् न घोषवत्संज्ञेति घोषवति तृतीयो न स्यात् । तस्मात् संज्ञया संज्ञान्तराणामबाधित्वाद् अपादानादयः संज्ञाः क्रमेण प्रादुर्भवन्तीति वचनमिदमुच्यते ।।३०१ ।
[क० च०]
तेषाम् । 'ग्रामाय दत्वा तीर्थं गतः' इति । ननु कथमिदमुदाहरणं यावता 'मूलकेनोपदंशं भुङ्क्ते, ब्राह्मणायाहूय ददाति' इतिवत् प्रधानक्रियापेक्षया अपादानसंज्ञैव प्राप्नोति । तत् कथं ग्रामायेति संप्रदानमिति गौणमुख्यक्रिययोः संबन्धे, युगपदुभयप्राप्त्यभावात् । प्रधानक्रियाश्रयणं तु अत्र प्राप्तिग्रहणादेव लभ्यते । तथाहि "तेषां परम् उभयस्मिन्" इति सिद्धे यत् प्राप्तिग्रहणं तत् तुल्यतया उभयप्राप्तिसूचनार्थम्, तुल्यत्वं च प्रधानक्रियापेक्षयैव । यदि गौणक्रियासंबन्धेऽपि युगपद् उभयप्राप्तिरुच्यते । तदा मूलकेनेत्यत्रोपदंशनक्रियाव्याप्यत्वेन परत्वाद् द्वितीया स्यात् । गौणत्वं चास्य विशेषणत्वेनैव । अत एव श्रीपतिरपि नाव्ययकृविधिः क्रियान्तरकारक इति । तथा च 'प्रधानशक्त्यभिधाने गुणशक्तिरभिहितवत् प्रकाशते' (का० परि० ६२) इति वक्ष्यति । उच्यते, क्रियान्तरापेक्षया विशेषणत्वादुभयोरेव दानगमनयोर्गौणत्वम् । तच्च क्रियान्तरं प्रकृतानुपयोगित्वान्न दर्शितम् ।