________________
नामचतुष्टयाध्याये षष्ठस्तद्धितपादः
घृतं श्रेय इति न तसादयः । यदि बहुभ्यश्चेत्युच्यते, न तदा बहुवचनं संख्यावचनमवधारयितुं शक्नोति । अर्थपरत्वान्निर्देशस्य तत्पर्यायेभ्योऽपि स्युरिति ॥ ३९० ॥
[वि० प०]
विभक्ति० | बहुशब्द इत्यादि । तेन विपुलवचनान्न तसादयः, बहोः सूपे घृतं श्रेय इति || ३९० ।
[क० च०]
४९९
सूपाद्बह
विभक्ति० । विभक्तिः सञ्ज्ञा येषामिति बहुव्रीहिः । विज्ञास्यन्ते इति विज्ञेयाः “आत्खनोरिच्च” (४।२ । १२) इति यः । एतस्मादतः परमिति क्रियाविशेषणम् । न द्वयादिरद्व्यादिस्तस्माद् द्वियुष्मदस्मद्भवन्तुवर्जितात् सर्वनाम्न इत्यर्थः । एतस्मात् सूत्राद् ये प्रत्ययाः परं वक्ष्यन्ते ते विभक्तिसंज्ञा विज्ञेयाः, ते च सर्वनामसंज्ञकाद् द्व्यादिवर्जिताद् बहुशब्दाच्चैव पराः स्मृताः इति शेषः । परग्रहणे तु सुखार्थे प्रत्ययात् परत्वस्य सिद्धत्वात् । अथ विभक्तिसंज्ञायां त्यदाद्यत्वं च त्यदादीनाम विभक्तितसादिष्विति कथन्न कुर्यात् ? नैवम् । तत्र सर्वनाम्नः एव " अदसः पदे" (२।२।४५) मकारो भवन्नुभयोः प्रकृतिविभक्त्योः सत्त्वे निश्चितं सोऽपि यथा स्यादितीह विभक्तिसंज्ञा विधेया । अमुतः, अमुष्मात्, अमुत्र, अमुधा । अन्यथा विभक्तिलोपे कथं स्यात् ? यद्येवं विभक्तितसादिरित्यधिकृत्य “दोऽद्वेर्म” (२।३।३१) इति भविष्यति । यथा किम् कः । केन प्रकारेण कथमिति चेत्, एवं तर्हि त्यदाद्यत्वं बाधित्वाऽदसोऽन्तस्य प्राक् पदत्वनिरपेक्षं मत्वमन्तरङ्गं स्यात् । अत एव उत्वं भवितुं पार्यते इत्येतन्निरासार्थं यदि च "दोऽद्वेर्मः” (२ | ३ | ३१) इत्यत्र पद इति क्रियताम्, “अदसः पदे मः " ( २ | २ | ४५ ) इत्यपि न कार्यम्, तदा सुखार्थमेवेदं वचनम् |
तेनेत्यादि । ननु कथमत्राकारलोपमिति स्याद् विभक्तेरभावात् । न च लुप्तविभक्तेः प्रत्ययलोपलक्षणन्यायेनेत्युच्यते । समासे युवावैनमघवदार्वत्स्वेव प्रत्ययवदिति नियमात् ? सत्यम् | " त्यदादीनाम विभक्तौ” (२/३/२९) इत्यत्र विभक्तिग्रहणान्नियमस्यानित्यत्वज्ञापनात् । अन्यथा एतन्नियमादेव 'त्यदीयः' इत्यादौ प्रत्ययलोपलक्षणन्यायेनापि न भविष्यति । किं तत्र साक्षात् प्रतिपत्त्यर्धविभक्तिग्रहणेनेति भावः ।। ३९० ।