________________
४९८
कातन्त्रव्याकरणम्
३९०.विभक्तिसंज्ञा विज्ञेया वक्ष्यन्तेऽतःपरंतु ये। अद्ध्यादेः सर्वनाम्नस्ते बहोश्चैव पराः स्मृताः॥
[२।६।२४] [सूत्रार्थ]
ट्यादिगणपठित शब्दों से भिन्न सर्वनामसंज्ञक शब्दों से तथा बहु शब्द से पर में होने वाले प्रत्ययों की विभक्तिसंज्ञा होती है, इस सूत्र से प्रारम्भ करके ।।३९०।
[दु० वृ०]
श्रुतत्वात् सर्वनामकार्यं प्रत्येव विभक्तिसंज्ञा । तेन ‘यदा, कदा' इति घोषवति न दीर्घः । बहुशब्दोऽत्र संख्यावचनः, सर्वनामसाहचर्यात् ।। ३९०।
[दु० टी०]
विभक्तिः । विभक्तिः संज्ञा एषामिति बहुव्रीहिः । विज्ञास्यन्ते इति विज्ञेयाः वक्ष्यन्त इति सम्बन्धत्वाद् भविष्यदर्थे यप्रत्ययः । एतस्मादतः परयोगे पञ्चमी । परमिति क्रियाविशेषणं स्वरूपाविर्भावलक्षणम् । न ह्यादिरट्यादिः । एतस्मात् सूत्राद् ये प्रत्ययाः परं वक्ष्यन्ते ते विभक्तिसंज्ञा विज्ञेयाः । ते च सर्वनामसंज्ञकाद् ट्यादिवर्जिताद् बहुशब्दाच्चैव पराः स्मृता इति । एतदपि परग्रहणं सुखार्थं प्रत्ययत्वात् परत्वं सिद्धमेव । 'स्मृतः' इत्यतीतार्थ एव निष्ठा परत्वमनूद्य हि विभक्तिसंज्ञा विधीयते । न ह्यनुत्पन्नस्य संज्ञाऽस्तीति । ननु विभक्तिसंज्ञायां त्यदाद्यत्वं चेत् त्यदादीनाम विभक्तितसादिष्विति कथं न कुर्यात् ? सत्यम् । तत्र सर्वनाम्न एवादसः पदे मकारो भवन्नुभयोः प्रकृतिविभक्त्योरेवेति निश्चितम् । सोऽपि यथा स्यादितीह विभक्तिसंज्ञा विधेया । अमुष्मात्, अमुतः, अमुष्पिन्, अमुत्र, अमुना प्रकारेण अमुथा ।
यद्येवमर्थमेवाधिकारमाश्रित्य "दोऽद्वेर्मः" (२।३।३१) इति भविष्यति, यथा किमः कत्वम् । केन प्रकारेण कथमिति । नैवम्, त्यदाद्यत्वात् प्राक् पदत्वनिरपेक्षं मत्वमन्तरङ्गं स्यात् ततश्चात्वं प्रसज्येत । श्रुतत्वाद् इत्यादि । सर्वनाम्नो विहितास्तसादयः सर्वनाम्न एव विभक्तयो नान्यस्य लिङ्गस्येत्यर्थः । किञ्च न तत्र विभक्त्यधिकार इत्युक्तमेवाभ्युपगमवादोऽयं वृत्तौ दर्शित इति । बहुशब्दोऽत्रेत्यादि । बहुशब्दः संख्यावचनोऽस्ति विपुलवचनश्च । साहचर्यं पुनरत्र सर्वेषां नामेति व्युत्पत्तिमाश्रित्य प्रवर्तते बहुलार्थत्वात् संख्यावचन एव सहचरितो न विपुलवचनः, प्रतिनियतविषयत्वात् । सर्वादिष्वस्य सन्निवेशो न क्रियते अक्प्रत्ययो मा भूदिति, तेन बहोः सूपाद् बहौ सूपे