________________
४७४
कातन्त्रव्याकरणम्
भावशब्देनोक्तः । तदभिधाने च तत्वाविति यथोक्तं यस्य गुणस्य सद्भावाद् द्रव्यविशेषे शब्दनिवेशस्तदभिधाने त्वतलाविति ।स पुनरनेकप्रकार इत्याह - शुक्लस्येत्यादि । शुक्लगुणभाव इति । गुण इह भावः, यतः पटे शुक्लशब्दप्रवृत्तौ गुणो निमित्तम् । एवमन्यत्रापि शब्दस्य प्रवृत्तिनिमित्तं भावप्रत्ययेनोच्यते।
अवस्थाभेदादिति ।एकस्यापि देवदत्तादेरनेकत्वमवस्थाभेदात् । अतोऽनेकव्यक्त्याधारा हि जातिः प्रवृत्तिनिमित्तमुपपद्यत इति भावः । अत्र देवदत्तस्य बाल्यादिभेदात्, चन्द्रस्य प्रतिपदादिभेदात्, सूर्यस्य पूर्वाह्लादिभेदादनेकप्रकारत्वम् । प्रदेशभेदादिति । घटाकाशम्, पटाकाशम् इत्युपचरितप्रदेशभेदान्नित्यस्यैकस्याप्यनेकत्वम्, अतः सामान्यप्रवृत्तिनिमित्तमेव । अतः अभावत्वमिति सम्बन्धिभेदादनेकत्वमित्यर्थः। भावस्य सम्बन्धित्वादर्थात् षष्ठ्यन्तादिह प्रत्ययः । तथा चासत्त्ववाचित्वात् षष्ठ्यन्ततानुपपत्तेरव्ययेभ्यः प्रथमान्तेभ्योऽपि प्रत्ययः । अत एवेह "तस्य भावः" इति नादृतम् । अथवा असत्त्वभूतोऽप्यर्थः शब्दान्तरेण परामृष्टः षष्ठ्यर्थे नियुज्यत एवेत्याह - 'नाना' इत्यस्य भावो नानात्वमिति ।।३७९।
[क० च०]
तत्त्वी०। भवनं भावो घान्तः । “तस्येदमेवमादेः" (२/६/७) ।अणो बाधकमिदम् । अत एव टीकाकृता शैषिकेऽणि प्राप्ते वचनमित्युक्तम् । स्वभावात् तत्वौ स्त्रीनपुंसकौ । देव एव देवतेति रूढिशब्दात् स्वार्थे तप्रत्ययः । व्युत्पत्तिवादी पुनराह - "साऽस्य देवता" (२/६/७) इति ज्ञापकात् स्वार्थेऽपि, तेन देवात् स्वार्थे तलिति सूत्रं न वाच्यम् । शब्दस्य प्रवृत्तीत्यादि । ननु भावशब्दस्यानेकार्थत्वात् शब्दस्यैव प्रवृत्तिनिमित्तमिह कथं लब्धम् । उच्यते "वाऽणपत्ये" (२/६/१) इत्यत आगतस्य नाम्नः श्रुतत्वात् तत् प्रवृत्तिनिमित्तं लभ्यते इति भावः । शुक्लगुणभाव इति । शुक्लाद् गुणात् पटाख्ये द्रव्ये शुक्लगुणज्ञानम् । शुक्लगुणशब्दश्च प्रवर्तते इति । शुक्लो गुणो भाववाच्यो भवतीत्यर्थः । एवं शुक्लगुणजातिरित्यत्रापि भाववाच्या इत्यन्वयःकार्यः । क्रियादिसंबन्धित्वमिति । क्रियाशब्दानां प्रवृत्तिनिमित्तं क्रियाकारकत्वसम्बन्धत्वम्, आदिशब्देन दण्डपुरुषत्वं विशेषणसंबन्धित्वं चोच्यते । लघुपूर्वादसन्ध्यक्षरनामिनः कविवर्जितादणपि दृश्यते - शौचम्, शुचिता । पार्थवम्, पृथुत्वम्, पृथुता | कवेस्तु काव्यम् ।