________________
नामचतुष्टयाध्याये षष्टस्तद्धितपादः
४७३
ननु चानेकव्यक्त्याधारा हि जातिः न च देवदत्तान्तरमस्ति, तदभावे च सामान्यविशेषभाव इत्याह- अवस्थाभेदादिति । तत्र देवदत्तस्य तावद् बाल्याद्यवस्थाभेदादनेकत्वम् । सूर्यस्य पूर्वह्णापराह्णादिभेदेन चन्द्रस्य प्रतिपदादिभेदेन । आकाशादेस्तर्हि नित्यत्वादसंबन्धाच्च न सामान्यमिति मन्यमान आह - आकाशत्वमित्यादि । प्रदेशभेदादिति प्रदेशभेदेनाकाशस्य भेदः कल्पितः - पटाकाशम्, घटाकाशमिति । तथा अभावोऽपि संबन्धिद्वारेण भेदकल्पनमापतितमिति स्थितम् । अथवा स्वरूपमजात्यात्मकमपि विशेषणम् । भवतोऽस्माद् बुद्धिशब्दाविति भावः । सर्वमेतल्लिङ्गविधाने प्रपञ्चितमेव । भावशब्दस्य संबन्धित्वान्नाम षष्ठ्यर्थे नियुज्यते । यतोऽपि षष्ठी नास्ति ततोऽपि भवत एव । अथ इह तस्य भाव इति नाद्रियते । परस्त्वाह - असत्त्वभूतोऽप्यर्थः शब्दान्तरेण प्रत्यवमृष्टः षष्ठ्यर्थे नियुज्यते । नानेत्यस्य भावः सहेत्यस्य भावः प्रत्यवमृष्टः षष्ठ्यर्थे नियुज्यते । नानेत्यस्य भावः सहेत्यस्य भावः प्रत्यवमर्षार्थं च वृत्तिरेव गमयतीति नानुपपन्ना षष्ठ्यन्तता । देव एव देवतेति रूढित्वात् ।
व्युत्पत्तिवादी पुनराह - " साऽस्य देवता" (२/६/७) इति ज्ञापकात् स्वार्थेऽपीति । लघुपूर्वादसन्ध्यक्षरनामिनः कविवर्जितादणपि दृश्यते । शौचम्, शुचिता, शुचित्वम् | पार्थिवम्, पृथुता, पृथुत्वम् । कवेस्तु काव्यम् । नञादेर्बहुव्रीहौ तत्वावेव । अमृदुत्वम्, अमृदुता । बहुव्रीहौ तु नास्य पटुरस्ति इत्यपटुः, अपटोर्भावः आपटवम् | अचतुरादेस्तु यथाप्राप्तम् - अचतुरता, अचतुरत्वम्, आचतुर्यम् । असङ्गतत्वम्, असङ्गतता, आसङ्गत्यम् । अलवणत्वम्, अलवणता, आलवण्यम् | अबुधत्वम्, अबुधता, आबुध्यम् । अकडत्वम्, अकडता, आकड्यम् । अवशत्वम्, अवशता, आवश्यम् । अलसत्वम्, अलसता, आलस्यम् | स्वभावात् तत्वी स्त्रीनपुंसकलिङ्गौ || ३७९ ।
[वि० प० ]
तत्वौ० । यद्यपि भावशब्दोऽनेकार्थः । यदाह - भावाभिख्याः पश्च स्वभावसत्तात्मयोन्यभिप्राया इति । तथापि भवतो यस्मादभिधानप्रत्ययौ स इह भावः । यस्माद् गोत्वादेर्विशेषणाद् विशेष्ये गवादौ गौरित्यादिकमभिधानं भवति गोत्वाद्याकारानुगतश्च प्रत्ययः स गोत्वादिलक्षणोऽर्थो भावः इत्याह- शब्दस्येत्यादि । एतदुक्तं भवति यस्य विशेषणस्य स्वभावाद् द्रव्यविशेषे शब्दस्य प्रवृत्तिः स तन्निमित्तभूतोऽर्थः सान्निध्याद्