________________
४७२
कातन्त्रव्याकरणम् ३-८. मथुरावत् । मथुरायामिव पाटलिपुत्रे प्रासादः । देववत् । देवमिव भवन्तं पश्यामि । पर्वतवत् । पर्वतादिव आसनादवरोहति । देवदत्तवत् । देवदत्त इव स्थूल; देवदत्त इव गोमान् । अन्धवत् | अन्धेनेव । जडवत् । जडेनेव । सर्वत्र प्रकृत सूत्र द्वारा वतिप्रत्यय, लिङ्गसंज्ञा, सिप्रत्यय, अव्ययसंज्ञा तथा सिलोप ||३७८।
३७९. तत्वौ भावे [२/६/१३]
[सूत्रार्थ]
शब्द के प्रवृत्तिनिमित्तरूप भाव के अभिधेय होने पर लिङ्ग से 'त' तथा 'त्व' प्रत्यय होते हैं ।।३७९ ।
[दु० वृ०]
शब्दस्य प्रवृत्तिनिमित्तं भावः । भावेऽभिधेये तत्वौ भवतः । शुक्लस्य पटस्य भावः शुक्लता, शुक्लत्वम् इति शुक्लगुणभावः । शुक्लस्य गुणस्य भावः शुक्लता, शुक्लत्वम् इति शुक्लगुणजातिः । गोता, गोत्वम् इति गोजातिः । पाचकत्वम्, दण्डित्वम्, विपाणित्वम्, राजपुरुषत्वम्, क्रियादिसंबन्धित्वम् । देवदत्तत्वम्,. चन्द्रत्वम्, सूर्यत्वम् इत्यवस्थाभेदात् ।आकाशत्वमिति प्रदेशभेदात् ।अभावत्वमिति संबन्धिभेदात् । नानेत्यस्य भावो नानात्वमिति ।। ३७९।
[दु० टी०]
तत्वौ० : शैषिकेऽणि प्राप्ते वचनम्, भवतेरनेकार्थत्वाद् भावशब्दोऽभिप्रायादिष्वपि वर्तते ततश्च देवदत्तस्याभिप्रायाभिप्रायो यज्ञदत्तस्य स्वभाव इत्यत्रापि प्राप्नोति । किं च भवतीति भाव इति णप्रत्ययान्तोऽप्यस्ति देवदत्ताद् भाव इति ? सत्यम् । भवतो यस्माद् बुद्धिशब्दौ स भाव इह गृह्यते । यस्माद् गोत्वादेविशेषणत्वाद् विशेष्ये गवादौ गौरित्येवमादिकःशब्दो गोत्वाद् गोराकारानुगता च बुद्धिः सोऽर्थो गवादेरित्याह - शब्दस्य प्रवृत्तिनिमित्तं भाव इति । स पुनरनेकप्रकार इह दर्शयन्नाह-शुक्लस्य पटस्येत्यादि । शुक्लादगुणात् पटाख्ये शुक्लज्ञानं शुक्लशब्दश्च प्रवर्तत इति शुक्लो गुणो भावशब्दवाच्यो भवतीति । क्रियादिसंबन्धित्वमिति | क्रियाकारकसंबन्धः क्रियाशब्दानां प्रवृत्तिनिमित्तमिति | आदिशब्देन दण्डपुरुषविषाणसंबन्धित्वम् । एकव्यक्तिनिवेशिनो देवदत्तादिशब्दा जातिशब्दा एवेत्याह -देवदत्तत्वमित्यादि ।