________________
नामचतुष्टयायाये चतुर्थः कारकपादः
१५३ तादर्थ्यमस्ति । गच्छतीत्यत्र तादर्थ्यविवक्षायां भवितव्यमेव चतुर्थ्या । करणविवक्षायां तु तृतीया - पथा गच्छतीति । तर्हि ग्रामाय धनाय गच्छतीत्युभयत्रापि तादर्थ्यं कष्टं स्यादिति ।
कश्चिदाह - चतुर्थी वेति सिद्धे द्वितीयाग्रहणं कृद्योगलक्षणषष्ठीबाधनार्थम् । 'ग्रामं गन्ता, ग्रामाय गन्ता' इति न पुनरेवं शिष्टप्रयोगो दृश्यते ||३०९।
[वि० प०]
गत्य०।चेष्टा परिस्पन्दलक्षणःकायकृतव्यापार इत्याह - चेष्टायामित्यादि ।मुख्य इत्यादि । कः पुनरध्वा मुख्यो योऽसौ ग्रामादिकं प्राप्तुमिच्छता आक्रान्तः समारूढः, कथं तस्य मुख्यता साक्षात् तस्य गतिक्रियायां व्यापाराल्लोके ह्यभिमतदेशप्राप्तिहेतुरध्वा मुख्यः प्रसिद्धो यः पुनरुत्पथेन ग्रामादिकं प्राप्तुमिष्यते तस्य गतिक्रियायां व्यवहितव्यापारत्वाद् गौणत्वमिति । न तत्रानध्वनीति प्रतिषेधः 'गौणमुख्ययोर्मुख्य कार्यसंप्रत्ययः' (कात०प०२) इति न्यायात् । तेन क्षेत्राद् उत्पथे गच्छति' इति चतुर्थी स्यादेव ।।३०९।
[क० च०]
गत्यर्थः । ननु चेष्टाशब्दः क्रियावचनोऽप्यस्ति, स कथमिह न गृह्यते ? नैवम् । चेष्टापदोपादानानर्थक्याद् गत्यर्थानां धातूनां क्रियावचनत्वाव्यभिचारात् । तस्माच्चेष्टापदोपादानात् परिस्पन्दवचनोऽत्र चेष्टाशब्दो गृह्यते । परिस्पन्दश्च शरीरव्यापारलक्षण इति हृदि कृत्वाह - चेष्टायामिति । ननु अर्थग्रहणं किमर्थं गतिकर्मणीति क्रियताम् ? सत्यम् । अर्थग्रहणं शब्दान्तरमनपेक्ष्य पादविहरणात्मिका प्रधानभूता क्रियायां या गतिरुच्यते तस्या एव ग्रहणं यथा स्यादिति । तेन 'स्त्रियं गच्छति, अजां नयति ग्रामम्' इत्यत्र न स्यात् । गमेर्मैथुनरूपार्थस्य स्त्रीशब्दादिसन्निधानं विना न गम्यते । नयतेश्च प्रापणैव प्रधानमर्थः, तद्विशेषणन्तु प्रापणम् अप्रधानम् । कथं तर्हि ग्रामाय गमयतीत्यत्र चतुर्थी । प्रेषणादिको ह्यर्थः प्रधानम्, न गतिः । नैवम् । न ह्यत्र ग्रामो गमयतेः कर्म, किन्तु गमेस्व । गमयतिना हि गुणभावेन गतिरुच्यते, गमिना तु प्रधानभावेनैव युक्तः। अतो मुख्यतया प्रतिपाद्यस्वरूपं प्राधान्यं गमेविवक्षितमेव ।
___ अथ तर्हि चेष्टाग्रहणमनर्थकम्, पादविहरणस्य चेष्टात्वाव्यभिचारादिति ।नैवम् । पादविहरणात्मिकेत्यस्योपलक्षणशङ्कया प्राप्तेरपि ग्रहणं स्यात्, तस्या अपि शब्दान्त