________________
३१
नामचतुष्टयाप्याये षष्ठस्तद्धितपादः दास्या अपत्यं दासेरः, दासेयः । गोधाशब्दादायणेयणौ दृश्येते, एयणपि व्युत्पाद्यते । तद् यथा-गौधारः, गौधेरः, गौधेयः । लक्षणश्यामयोर्वाशिष्ठ इति लाक्षणेयो वाशिष्ठः, लाक्षणिरन्यः । श्यामेयो वाशिष्ठः, श्यामायनोऽन्यः । ध्रुवो वश्चान्त इति ध्रौवेवः । एवं कल्याणिनेयः, कौलटिनेयः, कौलटेरः, कौलटेयः।।३७०।
[वि० प०]
स्त्यत्र्यादेः। स्त्री च अत्र्यादिश्चेति समाहारद्वन्द्वः। सत्यपि समाहारद्वन्द्वस्य नपुंसकत्वे "नामिनः स्वरे" (२/२/१२) इति नुर्न भवति सूत्रत्वात् । इह सत्यपि "स्वं रूपं शब्दस्याशब्दसंज्ञा" (अ० १/१/६८) इति वचने स्त्रीति स्वरूपस्य न ग्रहणम् । "एयेऽकवास्तु लुप्यते" (२/६/४७) इति वचनात् । नापि स्त्र्यर्थोऽत्र्यादौ विमातृशब्दस्य पाठात् । अन्यथा स्यर्थद्वारेणैव सिद्धं तस्मादुपचारादिह स्त्रियां विहितः प्रत्ययःस्त्रीत्याहस्त्रियामित्यादि । यद्यपि क्तिप्रत्ययोऽपि स्त्रियां विहितस्तथापि न तस्य ग्रहणम् । क्रियार्थकत्वाद् अपत्येन तदन्तस्य योगाभावादित्याह - स्त्रियामादादिभ्य इत्यादि ।विनतायाः, सुपर्णायाः, कमण्डल्वाः, युवतेरपत्यमिति विग्रहः । बह्वन्तकद्रुकमण्डलुभ्यः संज्ञायामिति नदादिदर्शनात् कमण्डलुशब्दाद् ऊप्रत्ययः । यथा लोकोपचाराद् यूनस्तिरिति युवन्शब्दात् स्त्रियां तिप्रत्ययः। अत्रिरित्यादि । न विद्यते प्रत्ययो यस्मादसावप्रत्ययः। अप्रत्ययश्चासाविदन्तश्चेति अप्रत्ययेदन्तः स चासौ द्विस्वरश्चेति पुनः कर्मधारयः। तस्योपलक्षणम् अत्रिशब्दं सादृश्यादित्यर्थः। तेनागणपठितादप्येयण सिद्धः। तथा चोपलक्षणमात्रं दर्शितं शौचेय इति ।। ३७०।
[क० च०]
स्त्यत्र्या० । ननु कथं शौचेयः, अत्र्यादिगणे पाठाभावाद् इत्यत आह-अत्रिरयमित्यादि । तेन बहुस्वरस्य न स्यात्-मारीचः । प्रत्ययान्तस्य न स्याद् दाक्षायण इति । दक्षस्यापत्यं दाक्षिः, तस्यापत्यमित्यर्थः। आकृतिगणत्वमेवात्र बीजम् ।
[पुस्तकान्तरे पाठः]
स्यत्र्या० । स्त्रियामित्यादि । स्त्रियामादादिर्यस्येति विग्रहः । अन्यआह -स्त्रियामित्यादि ।तद्धित एवोच्यते उपचारात् । “एयेऽकद्भवाः" (२/६/४७) इति । अथात्र अत्र्यादिराकृतिगणोऽयमिति वक्ष्यति, तदाऽत्रापि तदेव न्यायादेव सिध्यति ।