________________
४३०
कातन्त्रव्याकरणम्
[दु० ०]
स्त्रियां विहितत्वात् स्त्री । स्त्रियामादादिभ्योऽत्र्यादेश्चापत्येऽभिधेये एयण् भवति । वैनतेयः, सौपर्णेयः, कामण्डलेयः, यौवतेयः, आत्रेयः, शौचेयः । आदिग्रहणात् शौभ्रेयः, वैष्णपूरेयः । अत्रिरयमप्रत्ययेदन्तद्विस्वरोपलक्षणम्, तेन मरीचेरपत्यं मारीचः, दाक्षेरपत्यं दाक्षायणः । अत्र्यादिराकृतिगणः ।।३७०।
[दु० टी०]
स्त्यत्र्या० । स्त्रीति स्वरूपं न गृह्यते “एयेऽकद्र्वास्तु लुप्यते" (२/६/४७) इति वचनात् । नाप्यर्थोऽत्र्यातौ विमातृशब्दस्य पाठात् । यच्च स्त्रियां क्तिः, तत्रापत्येन योगाभावः क्रियार्थकत्वादित्याह - स्त्रियां विहितत्वादित्यादि । केवलानां स्त्रियामादादीनां प्रयोगाभावात् तदन्तग्रहणम् । विनतायाः, सुपाः , कमण्डल्वाः, युवतेरपत्यमिति विग्रहः । यूनस्तिरिति लोकोपचाराद् इति । तेन दरदोऽपत्यं दारदः, अणेव । अत्रेरपत्वं शुचेरपत्यम् इति विग्रहः । अत्र्यादिः- अत्रि, शुभ्र, विष्णुपुर, ब्रह्मकृत, शतद्वार, शलाखल, शलाका, भ्रूलेखा, क्षुद्रा, विधवा, विकसा (विकास), रोहिणी, रुक्मिणी, वापिनी, दिशशालुक, अजबस्ति, शकन्धि, गोधा, लक्षणश्यामयोर्वाशिष्ठे। ध्रुवो वश्चान्तः। कल्याणी, सुभगा, दुर्भगा, बन्धकी, स्वस, जरतिन्, बलिवर्दिन्, ज्येष्ठा, कनिष्ठा, मध्यमा, परस्त्रीणामन्तश्चेन । कुलटाया वा । कृकलासा, अनीवी (अणीव), प्रवाहण, भारत, भारम, मृकण्ड (मृकण्डु), कर्पूर, इतर, अन्यतर, देवतर, आलीढ, सुदन्त, सुदक्ष, सुनामन्, कद्रु, शुद, अकषाय, कुमारिका, कुवेरिका, किशोरिका, शारिका, जिक्षाशिन् (जिह्माशिन्), परिधि, वायुदत्त, वासुदत्त, शकल, शबल, खदूर, अम्बिका, (स्वस्तिका), अकोका, गन्धपिप्पल, खातोन्मत्ता, खाडोन्मत्ता (खनोन्मत्ता, खेटोन्मत्ता), कुदत्ता, कुशत्य (कुशम्ब), अस्वप, अनुसृष्टिन् (अनुदृष्टिन्), जरतिन्, शुक, शुक्र, उग्र, बीज, श्वन, अश्व, अजिर, विमातृ । नदीमानुषीनामभ्योऽणेवाभिधानाद् येऽत्र स्त्रीलिङ्गाः पठ्यन्ते तद्बाधनार्थं द्विस्वराभ्यः स्त्रीभ्यः एयणेव, न तु मानुषीनामत्वाद् अणभिधीयते । यथा दत्तायाअपत्यं दात्तेय इति । नद्यास्तु द्विस्वराया अणेवाभिधीयते । सिप्राया अपत्यं सैप्रः, सैध्रः, वैणः, कौल्यः, कैलः, सान्ध्यः । क्षुद्राया एयणपि दृश्यते । विधवाशब्दादेयणेव व्युत्पाद्यते । क्षुद्राङ्गहीना अनियतपुंस्का चोच्यते । तद् यथा - काणाया अपत्यं काणेरः, काणेयः ।