________________
कातन्त्रव्याकरणम्
पाणिनीये - वान्तो यि प्रत्यये (अ० ६।१।७९)। १६. आदिस्वरस्य वृद्ध्यादेशः (शैवः, औपगवः, कार्पण्यम्)
कातन्त्रे - वृद्धिरादौ सणे (२।६।४९) ।
पाणिनीये - तद्धितेष्वचामादे (अ०७।२।११७)। १७. ऐकारौकाररूपवृद्ध्यागमः (वैयाकरणः, सौवश्विः)
कातन्त्रे- न य्योः पदाद्योवृद्धिरागमः (२।६।५०)। पाणिनीये - न य्वाभ्यां पदान्ताभ्यां पूर्वी तु ताभ्यामैच् (अ०७।३।३)।
भिन्नरूपा विधयः १. जनपदसमानक्षत्रियावबोधार्य रूढशब्दप्रयोगस्तद्राजसंज्ञा च
‘पञ्चालाः- वङ्गाः' इत्यादिशब्दसाधनार्थं "ते तद्राजाः, ज्यादयस्तद्राजाः" (अ० ४।१।१७४; ५।३।११९) इति सूत्राभ्यां तद्राजसंज्ञां विधाय पश्चात् पाणिनिः अपत्यार्थे बहुत्वार्थे चाणादिप्रत्ययानां लुकं विदधाति, कातन्त्रकारस्तु जनपदसमानक्षत्रियवाचकशब्दानामवबोधार्थं 'रूढ' शब्दं निर्दिशति । एवं लुविधौ भेदाभावेऽपि तद्राजसंज्ञाव्यवहारे रूढशब्दव्यवहारे च भेदः सुतरामास्थित एव । २. करणाधिकरणसंज्ञयोः पौर्वापर्याङ्गीकारे भेदः
कादिषट्कारकाणां क्रमः क्वचिद् अपादान-सम्प्रदान करण-अधिकरण-कर्मकर्तृरूपो व्यवस्थापितः, क्वचिच्च कर्तृ-कर्म-अधिकरण-करण-सम्प्रदान-अपादानरूपः । पूर्वक्रमानुसारेणैकत्र कारकद्वयसम्प्राप्तौ परकारकम्, परवर्तिक्रमानुसारेण च पूर्वकारकं प्रवर्तते । पाणिनीये कातन्त्रे चापादानादिक्रमः समादृतस्तत्रापि च पाणिनिना पूर्व करणसंज्ञा शर्ववर्मणा चाधिकरणसंज्ञा निर्दिष्टा । तेन ‘धनुषा शरान् क्षिपति' इत्यत्र धनुश्शब्दस्य करणसंज्ञा प्रवर्तते कातन्त्रे न तु अधिकरणसंज्ञा | ३. हिंसार्थ-रुजार्थयोर्भेदाभेदौ
'चौरस्य निहन्ति - चौरस्य रुजति' इत्यादौ षष्ठीविधानार्थं पाणिनिः “रुजाना भाववचनानामज्वरेः, जासिनिप्रहणनाटक्राथपिषां हिंसायाम्' (अ०२।३।५४,५६) इति सूत्रद्वयमुक्तवान्, परं कातन्त्रकारः “हिंसार्थानाज्चरेः" (२।४।४०) इत्येकेनैव