________________
३९२
कातन्त्रव्याकरणम्
विष्णू | अविष्णावित्येव-अग्नावैष्णवम् । सोमवरुणयोरुत्तरपदयोरग्नेरीकारो भवति - अग्नीषोमौ । तत्रापिग्रहणात् षत्वम् । अग्नीवरुणौ । अनाद् वृद्ध्यादावित्येव-अग्नीवारुणीम् अनड्वाहीमालभेतेति । दिवो द्यावा । द्यौश्च क्षमा च द्यावाक्षमे द्यावाभूमी । दिवस् पृथिव्यां वा-दिवस्पृथिव्यौ, द्यावापृथिव्यौ । उषस् उषसा भवति । उषश्च नक्तं च उषसानक्तम् ||३५८। [वि० प० ]
आकारो० | महांश्चासौ देवश्चेति, महद् वक्त्रम् अस्येति विग्रहः । तुल्याधिकरणग्रहणं कर्मधारयनिवृत्त्यर्थम् । तेन बहुव्रीहावपि भवति । अन्तरङ्गत्वाद् इत्यादि । नलोपः पुनर्व्यञ्जनान्तस्य यत्सुभोरिति वचनात् । यदि पुनर्नित्यत्वाद् आकारः प्राग् भवेत् तदा व्यञ्जनान्तत्वाभावान्नलोपस्याभावः । च्व्यन्तस्येत्यादि । अत्र यद्यपि अमहान् महान् भूत इति शाब्दं सामानाधिकरण्यम्, तथापि भूतशब्दस्यातीतवचनत्वादमहान् महान् भूतः अतीतः, स चार्थात् महत्येवेति महति भूत इति गम्यते, वैयधिकरण्यात् कुतः प्रसङ्गः । अथवा महान् महतः प्रकृतिरिति प्रकृतेरेवात्र प्राधान्यं तन्मूलत्वाच्च विकृतेरप्राधान्यमिति गौणत्वादेव न भवति । घासकरविशिष्टेषु पुंवच्चेति वैयधिकरण्यार्थं यथासंभवं पुंवद्भावार्थं च कश्चिद् आह तदिह कथमित्याह - योगविभागादिति । एवं महतो घासो महाघासः इत्यादयोऽपीति । ननु योगविभागादाकारो नाम भवतु । पुंवद्भावस्तु कथमिति चेत् ? सत्यम् ! तत्रापि योगविभागो वक्तव्य एवेत्यदोषः || ३५८ । [क० च०]
आकारो० । कार्यग्रहणादर्थपरस्यैव महत आकारस्तेन 'महच्छब्द:' इत्यत्र न भवति । तुल्याधिकरण इत्युक्तं पद इति लब्धे पदग्रहणं समासान्तपदलाभार्थम् । अतो महतो घटस्य रूपं यत्रेति 'महद्घटरूप:' इत्यादौ न भवति जातीयप्रत्यये च वक्तव्यम्महाजातीयः। विद्यायोनिसंबन्धिनि ऋकारान्ते द्वन्द्वे आकारो दृश्यते । होतापोतारी, प्रशास्ताप्रतिपत्तारौ । योनिसंबन्धिनः- मातापितरौ, याताननान्दरौ । पुत्रे च - मातापुत्रौ, पितापुत्रौ । वेदे - सहश्रुतानां वायुवर्जितानां द्वन्द्वे उत्तरपदे आकारो भवति । सूर्याचन्द्रमसौ, मित्रावरुणौ । देवतानामित्येव - यूपचमसौ । अवायूनामित्येव । अग्निवायू, वाय्वग्नी |