________________
४०४
कातन्वव्याकरणम्
अलाबूश्च कर्कन्धूश्च, दुन्दूश्च, तासां फलमिति । के प्रत्यये समानस्य ह्रस्वः इष्यते । ग्रामणिकः, यवलुकः, खटिका । अज्ञाताद्यर्थे कप्रत्ययः । बहुव्रीहौ न स्यात्-बहुनदीकः । नवृदन्ताद् बहुव्रीहौ को दृश्यते । स्त्रीकृतादन्तस्य तु विभाषा ।बहुखट्वाकः, बहुखट्वकः । शेषाद् वा बहुव्रीहौ को दृश्यते । भाषितपुंस्कात् स्त्रीकारस्य तरतमरूपकल्पचेलब्रुवगोत्रमतहतेषु ह्रस्वः । ब्राह्मणितरा, ब्राह्मणितमा, ब्राह्मणिरूपा, ब्राह्मणिकल्पा, ब्राह्मणिचेली, ब्राह्मणिब्रुवा, ब्राह्मणिगोत्रा, ब्राह्मणिमता, ब्राह्मणिहता । तमादयः कल्पपर्यन्ताः प्रत्ययाः। चेलादीन्युत्तरपदानि । चिल वसने, पचाद्यच् नदादित्वादी । कुत्सिता ब्रह्म णिचेलीत्युच्यते । ब्रवीतीति ब्रुवः पचाद्यच् । अभिधानाद् वच्यादेशो न भवति, उवादेशश्च स्यात् । सर्वत्र कर्मधारयः । भाषितपुंस्कादित्येव । आमलकीतरा । आमलकीशब्देन हि स्त्रीलिङ्गो वृक्षार्थेऽभेदोपचारात् फले नपुंसके च वर्तते । न ह्युपचारवृत्तौ चानेन भाषितः पुमानिति । एकस्वरात्तु विभाषा । स्तृणातेमुट्-स्त्रितरा, स्त्रीतरेत्यादि । स्त्रीकारस्येति किम् ? श्रीतरा । अन्स्यन्तिभ्यां च स्त्रीकृतेकारस्य विभाषा । 'विदुषीतमा, विदुषितमा, पचन्तीतमा, पचन्तितमा' इत्यादि । कथं विद्वत्तमेत्यादि नात्र पुंवद्भावो वक्तव्यः ? सत्यम् । प्रकर्षयुक्तस्य पश्चात् स्त्रीत्वं विवक्षितमिति भावः । ऊङश्च वा ह्र स्वः - धीबन्धुतमा, धीबन्धूतमेत्यादि ।।३६४। .
[वि० प०]
याकारो०। रेवती मित्रमस्य, रोहिणी मित्रमस्य, भरणी मित्रमस्येति विग्रहः । लक्ष्यानुरोधाद् इष्टकेषिकामालानां चिततूलभारिषु दर्शयति-इष्टकचितम् इति । इष्टकाभिश्चितम्, इषिकायास्तूलम् इति विग्रहः । तथा मालां बिभर्तीति ताच्छील्ये आभीक्ष्ण्ये वा णिनिः । एवमन्येऽपि शिष्टप्रयोगानुसारेण वेदितव्या इत्यर्थः ।।३६४।
[क० च०]
याकारो०। स्त्रियामिति कृते 'सोमपा स्त्री, सेनानी स्त्री' इत्यत्रापि ह्रस्वप्रसङ्गात् स्त्रीकृतावित्युक्तम् । क्वचिद् ग्रहणान्नेह तत्पुरुषानुवृत्तिरित्यत आह -समास इति ।इष्टकेषिकामालानां चिततूलभारिषु तदन्तविधिरपीष्यते । पक्वेष्टकचितम् । आप्तेषिकतूलम्, उत्पलमालभारिणीति | अस्त्रीकृतयोरपीकारोकारयोर्वा ह्रस्व इष्यते । ग्रामणिपुत्रः, ग्रामणीपुत्रः । यवलुपुत्रः, यवलूपुत्रः । इयुस्थानथोर्न स्यात् - श्रीकुलम्, भ्रूकुलम् । भ्रकुंशादीनां दृश्यते - भ्रकुंशः, भ्रुकुटिः ।