________________
१३०
कातन्त्रव्याकरणम्
निवर्तकाभावात् । “प्रसितोत्सुकाभ्यां तृतीया च" (अ० २।३।४४) इति न वक्तव्यम् । 'केशेषु प्रसितः' इति विषय एव सप्तमी । केशैः प्रसितः इति केशैः करणभूतैः प्रसितो भवति, कर्तृभूतैर्वा प्रसितः कृत इति गम्यमानत्वादिति भावः । प्रसितो नित्यम् अवबद्धः, 'षिञ् बन्धने' (४।२; ८।५) । एवं केशेषूत्सुकः, केशैरुत्सुक इति । तथा पुष्येण पायसम् अश्नीयात्, करण एव तृतीया । पुष्ये पायसम् अश्नीयात्, अधिकरण एव सप्तमी | कालस्यामूर्तस्यापि विवक्षया पुष्पेण चन्द्रयुक्तेन लक्षितः क्षणः पुष्यः सोऽयमित्यभिसंबन्धात् । निमित्ताद् इत्यादि । द्वीपिनो हननस्य निमित्तं चर्म, तस्य द्वीपिना कर्मणा संयोगः । वाच्या व्याख्येया इति । हननक्रियाविशिष्टं पुरुषं चर्मैव धारयति, तदन्तरेण तस्यास्थितिरिति विवक्षया निमित्तमपि नित्यम् आधार एवेति ।।३०४।
[वि० प०]
शेषाः। यथासंख्यमिति । स्वाम्येवादिर्यस्य स स्वाम्यादिर्गणः, गणस्यैकत्वात् । कर्मादयः षट्, शेषाश्च विभक्तयः षड् इत्यर्थकृतं यथासंख्यं न शब्दकृतम्, द्वितीयादीनां षड्विभक्तीनां शब्देनानुपात्तत्वात् । क्तस्य चेन्विषयस्य कर्मणि सप्तमीति न वक्तव्यम् । अधिकरणविवक्षयैव सिद्धत्वादित्याह –'अधीती व्याकरणे' इति । अध्ययनम् अधीतम्, नपुंसके भावे क्तः। "तदस्यास्तीति मन्त्वन्त्वीन" (२।६।१५) इति इन् । तथा "साधुनिपुणाभ्याम_याम्" (अ० २।३।४३) इत्यपि न वक्तव्यम् इत्याह - तथेत्यादि । यच्चोक्तम् अर्चायामिति किम् ? 'साधु त्यो राज्ञः' इत्यत्रापि विषयविवक्षायां सप्तम्या भवितव्यमेव-साधु त्यो राजनीति । तथाऽनर्चायामपि भवितव्यमेवेति साध्वसाधुप्रयोगे सप्तमीति न वक्तव्यम् इति दर्शयति – 'असाधुः पितरि' इत्यादय इति । निपुणो मातरि, निपुणः पितरि' इत्यादयो विषयसप्तम्यैव द्रष्टव्या इति भावः ।।
निमित्तेत्यादि । येन विना यन्न भवति तत् तस्य निमित्तमिति । हननस्य चर्मैव निमित्तम्, तेन विना तदभावात् । तस्य निमित्तस्य चर्मणो द्वीपिना कर्मणा सह संयोग इति सप्तमी वाच्या व्याख्येया | तत्रेदं व्याख्यानम् - अधिकरणं हि क्रियाधारभूतं कर्तारं कर्म वा धारयद् भवति । हननक्रियाविशिष्टं पुरुषं चर्मैव धारयति, तेन विना तस्य स्थितेरभावाद् इत्युपश्लेषमन्तरेणाप्यधिकरणत्वं चर्मणो विवक्षितमिति ।।३०४ ।