________________
१२९
नामचतुष्टयाध्याये चतुर्वः कारकपादः अधिकरणे - कटे आस्ते, अधीती व्याकरणे | तथा साधुर्मातरि, असाधुः पितरीत्यादयः । निमित्तात् कर्मसंयोगे सप्तमी वाच्या
चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।
केशेषु चमरी हन्ति सीम्नि पुष्कलको हतः॥ [दु० टी०]
शेषाः। शिष्यन्ते इति शेषाः, कर्मणि घञ् । प्रथमामपेक्ष्य शेषशब्दवाच्या द्वितीयादयः । षड् इत्यर्थकृतमिह यथासंख्यम् । स्वाम्यादिर्यस्य गणस्येति बहुव्रीहौ गणस्यैकत्वात् शब्दकृतं न यथासंख्यम् इत्याह - शेषा इत्यादि । स्वाम्याद्यर्थे षष्ठी भवत्यपि स्वाम्यादयः शब्दाः प्रयुज्यन्ते । सामान्यवाचका हि शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्ते इति । परतस्तु भेद्यादन्तरङ्गत्वाल्लिङ्गार्थमात्रे प्रथमा अस्तीति भेदकात् षष्ठी भवति । तयैवोभयगतसम्बन्धस्योक्तत्वात् । तदुक्तं च
भेयभेदकयोः श्लिष्टः संबन्धोऽन्योऽन्यमिष्यते। द्विष्ठो यद्यपि संबन्धः षष्ट्युत्पत्तिस्तु भेदकात् ॥ संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां वा क्रियायां स प्रतीयते॥
(वा० प० ३।७।१५६) इति । यथा 'रजकस्य वस्त्रं ददाति, नतः पृष्ठं ददाति, सुभाषितस्य शिक्षते, माषाणामश्नीयात्' । 'राज्ञः पुरुषः' इति राजा पुरुषाय ददातीति गम्यते । एवं काकुत्स्थस्याङ्गुरीयक इति कृतः कारितो वा । पशोः पादः । पशोः पदेनावयवरूपेणारब्ध इति । अस्येदम् = भावरूपस्वस्वाम्यादिलक्षणः संबन्ध इति ।क्तस्य चेन्विषयस्य कर्मणि सप्तमी न वक्तव्येत्याह – अधीतीत्यादि । कर्मणो विषयत्वेन व्यवस्थितत्वाद् (विवक्षितत्वात्) भावे क्तं विधाय ‘अधीतमस्यास्ति' इति इन् । एवं 'परिगणिती वैदिके , आम्नाती च्छन्दसि'।
साधुनिपुणाभ्यां प्रयोगे पूजाप्रतीतौ विषयलक्षणा सप्तमी स्यादित्याह - तथेत्यादि । एवं 'मातरि निपुणः' इति । 'साधु त्यो राजनि' इति भवितव्यमेव,