________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१३१
[क० च० ]
शेषाः । शेषशब्दोऽत्र पूर्वप्रक्रान्त इतरवचनः । यथा शते धार्यमाणे अशीतौ दत्तायां विंशतिः शेष इति । शेषशब्दोऽत्र वाच्यलिङ्गत्वाद् विभक्तीनां सामानाधिकरण्येन स्त्रीलिङ्गः । यथा ‘शेषं दधि, शेष ओदनः, 'शेषा हि वाणी कुसुमायुधस्य' इत्यादि । शेषशब्दस्याजहल्लिङ्ग्ङ्गत्वेऽपि न दोषः । यथा 'अमुकी शेषा' इति । तथा चोक्तम् - 'पुंनपुंसकयोः शेषः' इत्यमरेण । कर्मशब्दोऽत्र कारकवचनः, न तु वैशेषिकशास्त्रप्रसिद्धक्रियावचनः, तस्या असत्त्वभूतत्वेन विभक्तिवाच्यैकत्वादेस्तत्रासंभवात् । अथ अस्त्येव क्रियाया एकत्वादिसंबन्धः । यथा - 'पाकः, पाकौ, पाकाः, स्पन्दः, स्पन्दौ' इति ? सत्यम् । व्याप्तिन्यायात् कारकवचन एव गृह्यते । यद् वा करणादिसाहचर्येण कर्मपदस्यापि कारकपरत्वात् स्वशास्त्रसंकेतितस्यैव, शीघ्रं बुद्ध्या रूढत्वाच्च । तदुक्तं 'कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसंप्रत्ययः' इति । अथ स्वाम्यादयः स्वस्वामिसंबन्धसमीपसमूहविकारावयवभावपूरण्यादयः । अन्येऽपि बहवः सन्ति । तत्र क्रमेणोदाहरणानि – ‘देवदत्तस्य स्वम् । देवदत्तस्य स्वामी । देवदत्तस्य पुत्रः । कुम्भस्य समीपम् । हस्तिनां समूहः । पयसो विकारः । पशोः पादाः । छात्रस्य भावाः । छात्राणां पञ्चमः' इति वररुचिः ।
स्वाम्यादाविति । स्वं विद्यतेऽस्येति इन् मकारागमः, ह्रस्वस्य दीर्घतेति दीर्घः। अत्र ‘देवदत्तस्य स्वामी’ इत्यत्र देवदत्तात् स्वाम्यर्थे विधीयमानया षष्ठ्या प्रकृत्यन्तरस्य स्वामित्वमभिधीयते । ‘यज्ञदत्तस्य स्वामी' इत्यत्र यज्ञदत्तात् स्वेऽर्थे विधीयमानया षष्ठ्या प्रकृत्यन्तरस्य स्वत्वमभिधीयते इति कुलचन्द्रसम्मतम् । तन्न, गणक्रमेणोदाहर्तुमुचितत्वेनादौ स्वाम्युदाहरणस्यानौचित्यात् । किञ्च यथा कर्मणि विधीयमाना द्वितीया यस्माच्छब्दाद् विधीयते, तदर्थस्यैव कर्मत्वबोधं जनयति । तथाहि 'कटं करोति' इत्युक्ते कटस्यैव कर्मत्वं नान्यस्य । तथा 'देवदत्तस्य स्वामी' इत्यत्र स्वाम्यर्थे विधीयमानायाः षष्ठ्याः देवदत्तस्यैव स्वामित्वं बोधयितुमुचितत्वात् । तस्माद् गणक्रमेणैव स्वाम्युदाहरणं देवदत्तस्य स्वामी इति दर्शितम् । ततश्च देवदत्तस्य प्रकृतीभूतस्य षष्ट्या स्वत्वमभिधीयते । एतेन यथा 'कटं करोति' इत्युक्ते कटकर्मकरणमिति प्रतीयते । तथा ‘देवदत्तस्य स्वामी’ इत्युक्ते देवदत्तस्य स्वकः स्वामी इत्यपि । 'यज्ञदत्तस्य स्वामी' इत्यत्र षष्ठ्या प्रकृतिभूतस्य यज्ञदत्तस्य स्वामित्वमभिधीयत इति । तेनात्रापि देवदत्तस्य स्वकं स्वामित्वमित्यर्थः ।