________________
१३२
कातन्त्रव्याकरणम्
ननु यदि षष्ट्या प्रकृतेः स्वत्वं स्वामित्वं चाभिधीयते, न प्रकृत्यन्तरस्य, तदा कथं देवदत्तस्य स्वामीत्यादौ स्वाम्यर्थे विधीयमानया षष्ठ्यैव स्वाम्यर्थस्योक्तत्वात् स्वाम्यादिशब्दः पुनः प्रयुज्यते इति पूर्वपक्षं मनसिकृत्य टीकाकृता स्वाम्याद्यर्थे षष्ठी भवत्यपि स्वाम्यादयः शब्दाः प्रयुज्यन्त इति । सामान्यवाचका हि शब्दाः प्रकरणमन्तरेण विशेषे वर्तितुं नोत्सहन्त इति सिद्धान्तितम्, सत्यम् । टीकापङ्क्तेरयमाशयः- नन्वस्य स्वामिनः स्वामी इत्यत्रास्येति षष्ट्या एव स्वामित्वाभिधानात् कथं तत्समानाधिकरणस्य स्वामिशब्दस्य प्रयोगः, उक्तार्थत्वादित्याह - स्वाम्यायर्थ इत्यादि । अन्यथा अस्य धनमित्युक्ते षष्ट्या सामीप्यार्थस्याप्यभिधातुं शक्यत्वाद् इति । विष्णुमित्रस्य सम्बन्ध इति गणे संबन्धशब्दस्य संबध्यत इति व्युत्पत्त्या संबन्ध एवार्थः । तेन 'विष्णुमित्रस्य संबन्धः' इत्यत्र संबन्धपदेन संयोगाद्यभिधानाद् विष्णुमित्रसंबन्धी संयोगादिरित्यवसीयते । 'देवदत्तस्य पुत्रः' इत्यत्रापि देवदत्तसम्बन्धिकः पुत्र इति गम्यते । संबन्धिनि षष्ठीविधानेऽपि देवदत्तसम्बन्धी संबन्ध इति प्रतीत्योभयगतसंबन्धस्याप्यावश्यकत्वात् संबन्धप्रतीतिः । कटं करोतीत्यादौ साध्यसाधनप्रतीतिवत् । अत एव सम्बन्धे षष्ठीति किंवदन्ती।
हेमकरस्तु - ननु यथा कर्मादिष्वभिधेयेषु द्वितीयादयो भवन्ति तथा स्वामिन्यभिधेये षष्ठी भवितुमर्हतीति तत्कथं स्वस्वामिसम्बन्धे ? सत्यम् । स्वाम्यादावर्थे षष्ठी भवितुमुचितापि स्वामिशब्दस्य संबन्धिवचनत्वात् संबन्ध एवावसीयत इति । ततश्च तस्यायं स्वामी इत्यर्थ एव षष्ठी भविष्यति, तत् कथं 'राज्ञः पुरुषः' इत्यत्र षष्ठी स्यात् ? सत्यम् । स्वस्वामिसंबन्धे षष्ठीह विधीयते, स चात्राप्यस्त्येव । विशेषस्तु पूर्व स्वामी विशेष्योऽत्र स्वम् इत्येव, ततश्चास्य स्वामिनोऽयम् इत्यस्मिन्नर्थेऽपि भवितव्यमेवेति । ननु स्वस्वामिलक्षणसंबन्ध इत्यत्र स्वशब्देन किमात्मीयमुच्यते, नैवं द्रव्यम्, तस्य संबन्धेऽपि स्वस्वामिलक्षणः । यथा देवदत्तस्य स्वमिति । अथ तर्हि आदिशब्देन किं गृह्यते ? सत्यम्, आदिशब्दात् सम्बन्धमात्रेऽपि स्यात् । यथा विष्णुमित्रस्य संबन्धो यज्ञदत्तेनेति शेषः । ननु संबन्धशब्दस्य स्वस्वामिलक्षणसंबन्ध एव लोकप्रसिद्धत्वात् कथमादिशब्देन संबन्धान्तराभिधानम् ? सत्यम् । यत्तु स्वस्वामिसंबन्धे षष्ठी इत्युपघुष्यते, तस्य विषयः केवलं यज्ञदत्तस्य स्वामी, राज्ञः पुरुषः, देवदत्तस्य स्वमिति । विष्णुमित्रस्य संबन्ध इत्यादौ तु स्वस्वामिसंबन्ध उपचरितः एवेत्याचष्टे |