________________
१३३
नामचतुष्टयाध्याये चतुर्षः कारकपादः ननु अर्चायामिति किम् ? साधु त्यो राज्ञः । अत्रापि विषयविवक्षायां सप्तम्या भवितव्यमेव, साधु त्यो राजनीति पङ्क्त्या एवोक्तत्वात् ।अथ अनर्चायामपि भवितव्यमेवेति कथमुच्यते ? सत्यम् । तथेत्यादिपङ्क्तिस्तु परमतदूषणार्थमुक्ता । तथाहि, यथा अर्चायां भवन्मते साधुर्मातरीति प्रयोगः, तथा अन_यामपि साध्वसाधुप्रयोगे' इति जयादित्यवक्तव्येन साधु त्यो राजनीति भवत्येवेत्यर्थः । “साध्वसाधुप्रयोगे" इत्यत्रासाधुग्रहणमनर्वार्थमिति व्याख्यातत्वात् । हेमकरस्तु यथा साधुनिपुणाभ्यामर्चायामिति नोक्तम्, तथा साध्वसाधुप्रयोगे सप्तमीति न वक्तव्येति व्यस्तेनान्वयः । तर्हि अनर्चायां कथं सप्तमी अस्मन्मते भविष्यति, तस्मादनार्थ सप्तम्युच्यताम्, नेत्याह-अन_यामपि भवितव्यमित्याचष्टे |वृत्तावादिशब्देन यत् संगृहीतं तदाचष्टे | एवमित्यादि । हेमकरस्यायमाशयः। निमित्तादिति वृत्तिः । अस्याः- हननादिक्रियाव्याप्येन द्वीप्यादिना संयोगे सति निमित्तात् क्रियानिमित्ताच्चादेः सप्तमी भवति । तादर्थ्यविवक्षायां चतुर्थी । प्राप्तौ विधिरयमिति कुलचन्द्रः। हेत्वर्थे तृतीयाप्राप्तौ विधिरयमिति श्रीपतिः।उद्देश्यमिह निमित्तम्, तेन असिना दीपिनं हन्तीत्यत्र न भवति । निमित्तादिति किम् ? अङ्गस्य मलमपकर्षति । कर्मेति किम् ? वाणिज्याय देशान्तरे प्रवसति । संयोग इति किम् ? भिक्षायै देशांस्त्यजति । क्रियाया इति किम् ? अग्नये समिधम् आहरति ।
न चात्र समिदाहरणक्रियानिमित्तता अग्नेरिति वाच्यम् । अग्नये यत् समिधम्, तद् आहरतीत्यर्थः । अन्ये तु कियाया इति किम् ? पीतक्षीरायै गवे व्रतं करोतीत्याहुः । अत्र पानकर्मक्षीरसंयोगेऽपि करणक्रियानिमित्तत्वाभावादित्यर्थः । संयोगश्चात्र संश्लेषः । अतो वेतनेन धान्यं लुनातीत्यत्र न भवति ।अस्मिन् व्याख्याने "अन्ती येनादर्शनमिछति" (अ० १।४।२८) इत्यत्रानेनैवोपसंख्यानेन यदुक्तं तन्न घटते, तस्माद् अत एव
१. अत्र कारिका - हन्तेः कर्मण्युपष्टम्भात् प्राप्तुमर्थे तु सप्तमीम् ।
__चतुर्थीबाधिकामाहुश्चूर्णिभागुरिवाभटाः ॥ मुक्ताफलाय करिणं हरिणं पलाय सिंहं निहन्ति भुजविक्रमसूचनाय | का नीतिरीतिरिह ते रघुवंशवीर! शाखामृगे जयति यस्तव बाणमोक्षः ।। इति ।
ननु कथमत्र 'चर्मणि द्वीपिनं हन्ति' इत्यादिवत् न सप्तमी ? सत्यम् ; अत्र संयोगपदेनोपष्टम्भाख्यः संयोगो गृह्यते, स च दन्तकेशत्वगादिष्वेव प्रसिद्धः । तथा च - 'उपष्टम्भाख्यसंयोगो दन्तकेशत्वगादिषु' इति ।