________________
३७६
कातन्त्रव्याकरणम्
[दु० वृ०]
तथा द्विगोरप्येकत्वं नपुंसकलिङ्गं स्यात् । पञ्चगवम्, चतुष्पथम् । शोभनमिति विशेषणात् । एकत्वमिति किम् ? पञ्चकपाल ओदनः । अपात्रादिरदन्तोऽयं स्त्र्यादन्तो वा द्विगुस्तथा ।
अनन्तश्च समाहारो नदादिषु निगद्यते || ३५४ |
[दु० टी० ]
तथा । एकविभक्तियुक्तस्याप्येकदेश एकत्वमिह वर्तते, द्विगोरित्युपादानात् । तथा तेनैव प्रकारेणेति स्वरूपार्थमेव । पञ्चानां गवाम्, चतुर्णां पथां समाहार इति विग्रहः । समाहारस्यैवात्र द्विगोर्ग्रहणं द्विगोः संबन्धे यदेकत्वमिति वचनात् । ते पञ्चसु कपालेषु संस्कृत ओदनः ‘पञ्चकपाल ओदनः' इत्यत्र न स्यात् । संस्कृतत्वमत्रार्थ इति भावः । न च वक्तव्यम् – पञ्च गावः समाहता इति वाक्यान्तरेण बहुवचनं प्राप्नोति द्रव्याणां बहुत्वात् । तस्मादेकवद्भावो विधेय इति । यस्मात् समाहारोऽत्राभिधेयस्तदाश्रितमेकत्वं सिद्धम्, तत्र हि समाहारो भावसाधन एव प्रतिपत्तव्यः, न कर्मसाधन इति । तेन पञ्च कुमार्यः समाहृता इति वाक्यमेव |
ननु विशेषणं यन्नाम विशेष्यगतलिङ्गसंख्याकं स्यात् । कथं चतुष्पथमिदमिति । अनुप्रयोगे - यथा यूथमिदमिति तदेव निर्दिश्यत इति नास्ति दोषः । अपात्रादिरित्यादि । पात्रादिवर्जितो द्विगुरयमदन्तो नित्यं नदादिषु निगद्यत इति संबन्धः । पञ्चानां पूलानां समाहारः पञ्चपूली । द्वयोः पुरोः समाहारः- द्विपुरी, त्रिपुरी राजादित्वादत् । पञ्चगवम् इत्यादिभ्योऽन्योऽपात्रादिरिति । यथा - द्विपात्रम्, त्रिभुवनम्, चतुर्युगम्, चतुष्पथम् । कश्चित् 'पञ्चवटी' इत्युदाहरति । स्त्रियां विहित आत् स्त्र्यात्, सोऽन्तो यस्येति विग्रहः । विभाषया द्विगुर्नदादिरिति । यथा पञ्चखट्टी, पञ्चखट्वम् । तथा अनन्तश्चेति । पञ्चतक्षी, पञ्चतक्षम्, “नस्तु क्वचित् " ( २ / ६ / ४५ ) इति नलोपः ।
ननु चात्रान्यपदार्थबहुव्रीहेरन्यपदार्थलिङ्गता परपदार्थप्रधानस्य तत्पुरुषस्य परपदार्थलिङ्गता युक्ता । कथम् इतरेतरार्थस्य योगस्य द्वन्द्वस्य परलिङ्गतेति ? नैतदेवम्,