________________
नामचतुष्टयाध्याये पञ्चमः समासपादः
1
स्वभावादेवास्य वृक्षस्येव पुंवल्लिङ्गता सिद्धा । यद्येवं द्विग्वव्ययीभावयोर्नपुंसकलिङ्गविधानमनर्थकम् ? सत्यम्, मन्दमतिबोधनार्थमेव । येषां तु वाक्यमेव समासीभवतीति मतं तेषां द्वन्द्वैकत्वं नपुंसकलिङ्गं स्यादिति वचनम् इतरेतरार्थयोगे साधारणं नपुंसकलिङ्गं नास्तीति साधितम् । युगपदनेकलिङ्गसम्भवाभाव इत्यन्यतरलिङ्गेन भवितव्यम्, कदाचित् पूर्वस्य कदाचित् परस्येति ? सत्यम् । समासेऽप्यनेकपदाध्यवसायाद् यस्यैव सन्निहिता विभक्तिर्लिङ्गव्यञ्जिका तस्यैव लिङ्गं योज्यम् । सन्निहितपरित्यागे व्यवहितं प्रति कारणं वाच्यमिति न्यायात् । कुक्कुटमयूर्याविमे, मयूरीकुक्कुटाविमौ इति कथं तर्हि अश्ववडवौ, अश्ववडवे इति ? सत्यम् । “ असन्ध्यक्षरयोरस्य तौ तल्लोपश्च " (३/६/४०) इति ज्ञापकात् क्वचित् पूर्वस्यापि लिङ्गं प्रतिपत्तव्यम् । अन्यथा असन्ध्यक्षरयोर्नपुंसकत्वात् तच्छब्दस्यापि नपुंसकलिङ्गं स्यात् । ते इति । तेनाश्वशब्दस्य पुंस्त्वं वडवाशब्दस्यापि भवतीत्यर्थः । समासानां तु यल्लिङ्गान्यत्वं दृश्यते तल्लिङ्गानुशासने प्रतिपत्तव्यमिति || ३५४ |
[वि० प०]
३७७
तथा० । पञ्चगवमित्यादि । पञ्चानां गवां चतुर्णां पथां समाहार इति विग्रहे "गौरतद्धिताभिधेये (द्र०, २/६/४१ – ९), पन्थ्यपूपुर् ” (२/६/४१ - १९) इति राजादित्वात् । पञ्चकपाल ओदन इति । पञ्चसु कपालेषु संस्कृत इति संस्कृतत्वमात्रमर्थो विवक्षितो नैकत्वम्, अत इह समाहारद्विगुरेव गृह्यते । अपात्रादिरित्यादि । पात्रादिवर्जितो द्विगुरयम् अदन्तो नदादिषु निगद्यते, नदादेराकृतिगणत्वादिति संबन्ध । पञ्चानां पूलानां समाहारः पञ्चपूलीत्यादि । पात्रादेस्तु नपुंसकत्वमेव । द्विपात्रम्, त्रिपात्रम्, त्रिभुवनम्, चतुर्युगम् इति । स्त्र्यादन्तो वेति । स्त्रियामादन्तो यस्येति विग्रहः । पञ्चखट्वम् इत्यादि । अनन्तश्च | पञ्चानां तणां समाहारः पञ्चतक्षी, पञ्चतक्षम् इत्यादि । " नस्तु क्वचित् " (२/६/४५) इति नलोपः । । ३५४ ।
[क० च०]
तथा० । एकविभक्तियुक्तस्यापि एकदेश एकत्वमिह वर्तते द्विगोरिति षष्ठीनिर्देशबलात् । यथा द्वन्द्वस्यैकत्वं नपुंसकलिङ्ग तथा द्विगोरपीत्यर्थः । ननु विशेषणं नाम