________________
कातन्त्रव्याकरणम्
[दु० वृ०]
'परि-अप-आङ्' एभिर्योगे लिङ्गात् पञ्चमी भवति । इहापपरी वर्जने | आङ् मर्यादाभिविध्योः । परि त्रिगर्तेभ्यो वृष्टो देवः । अप पाटलिपुत्राद् वृष्टो देवः । आ पाटलिपुत्राद् वृष्टो देवः ।।३०५।
[दु० टी०]
पर्य० । इहापपरी वर्जन इत्यादि । योगः सम्बन्धः, स चार्थद्वारक एव शब्दानां भवति । वर्जनं हि क्रियाविशेषः । वयंवर्जकयोः संबन्धिनि वर्जने वर्तमानाभ्यां पर्यपाभ्यां युक्ताद् अप्रधानात् षष्ठीवत् पञ्चमी, त्रिगतदिः क्रियाव्याप्यत्वात् । विवक्षाभेदाद् द्वितीया षष्ठी वा प्राप्ता । अभिव्याप्याभिव्यापकयोः संबन्धिन्यामभिव्याप्तौ वर्तमानेन आङा तथैव । मर्यादायां तु षष्ठ्येव प्राप्ता । 'वृक्षं परि विद्योतते' इति लक्षणादिषु "कर्मप्रवचनीयैश्च" (२।४।२३) इति द्वितीयैवास्ति बाधिकेति । परिगतः, अपगतः, आगतः इति लिङ्गार्थमात्रे प्रथमा । अन्ये पुनरेषामेष्वर्थेषु कर्मप्रवचनीयत्वमभ्युपगम्य सिंहावलोकिताधिकारात् पर्यपाभिः कर्मप्रवचनीयैरिति प्रतिपद्यन्ते । अपेन साहचर्यात् परेर्वर्जनार्थस्य ग्रहणम् ।
ननु किमाङो ग्रहणेन मर्यादा अवधिराघाटः सीमेत्यर्थान्तरम् । अभिविधिरपि मर्यादाविशेषः, अवधिरभिव्याप्तिः कथ्यते । विना पाटलिपुत्रेण सहैवेति विशेषः पाटलिपुत्रादर्वाक् पाटलिपुत्रम् अभिव्याप्य वृष्ट इत्यर्थः ।बुद्धिकृतोऽपायोऽत्र विवक्ष्यमाणो गरीयान् इत्याङ्ग्रहणम् । योगग्रहणं सुखप्रतिपत्त्यर्थमेव । पाटलिपुत्राद् राजगृहं सप्त योजनानि, सप्तसु योजनेषु वेति । कार्तिक्या आग्रहायणी मासः मासे इति वा । पाटलिपुत्रेणावधिना सप्तयोजनपरिच्छेदेन विश्लेष आख्यायते । अथवा निःसृत्यप्रभृतीनि गतार्थत्वान्न प्रयुज्यन्ते । पाटलिपुत्रात् परेण राजगृहं सप्त योजनानीत्यर्थः । कार्तिक्या आग्रहायणी मासे इति परेणेति गम्यते सप्तमी चेत् कार्तिक्याः परेण आग्रहायणी मासे गते सति मासपर्यवसाने भवतीति वाक्यैकदेशो गम्यते इति । देशकालमाने प्रथमा, सप्तम्यपि न वक्तव्येति । यतः क्रिया प्रभवति, सोऽवधिरिति ।
प्रतिना योगे प्रतिनिधिप्रतिदाने यस्माद्भवतस्ततः पञ्चमी सिद्धा ।अभिमन्युरर्जुनतः प्रति ।अभिमन्योरर्जुनस्य प्रतिनिधित्वाद् अर्जुनात् सदृशबुद्धिर्भवति ।माषानस्मै तिलेभ्यः