________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
१३७ प्रतियच्छति विनिमयत्वात् तिलानामवधित्वं तिलान् गृहीत्वा माषान् ददातीत्यर्थः । ननु क्वचित् कार्यैः प्रसिद्धसम्बन्धप्रधानस्याभावे यः सदृशः कार्ये उपादीयते स प्रतिनिधिः । तत्र प्रतिनिधौ दत्तस्य प्रतिनियतिलक्षणे प्रतिदाने च वर्तमानेन संबन्धाभिव्यञ्जकेन प्रतिना यस्य प्रतिनिधिर्यस्य च प्रतिदानं ततः षष्ठी स्यादिति ? सत्यम् । सन्तमप्येनमर्थं गुणीकृत्यावधिरेव विवक्षितः, सतोऽपि चाविवक्षा । यथा अनुदरा कन्या' इति ।।३०५।
[वि० प०]
पर्य० । पर्यपाङ्भिः पञ्चमी' इति सिद्धे यद् योगग्रहणं तद् विशिष्टयोगव्यवस्थापनार्थम्, अत आह - इहेत्यादि । तेन ‘परिगतः, अपगतः, आगतः' इत्यादिषु पञ्चमी न भवति । अथ लिङ्गार्थमात्रे प्रथमैवास्ति बाधिका । तथा 'वृक्षं परि विद्योतते विद्युत्' इत्यत्र लक्षणादिषु "कर्मप्रवचनीयैश्च" (२।४।२३) इति द्वितीयैवास्ति बाधिका । पारिशेष्याद् वर्जनादिष्वेव भविष्यति तदा योगग्रहणं सुखार्थमेव । ‘आ पाटलिपुत्राद् वृष्टो देवः' इति मर्यादाभिविध्योरिदमेकमुदाहरणम्, वृत्तायुक्तरूपाभेदादअर्थस्तु भिद्यते । तत्र मर्यादा अवधिराघाटः सीमेति पर्यायः। पाटलिपुत्रमवधिं कृत्वा वृष्टो देवः, पाटलिपुत्रादर्वाग् देवो वृष्ट इत्यर्थः । अभिविधिरभिव्याप्तिः। पाटलिपुत्रमभिव्याप्य वृष्टो देवः इति ।।३०५।
[क० च०]
पर्य० । विशिष्टयोगव्यवस्थापनार्थमिति पनी । अस्यार्थः- यदा वर्जनाद्यर्थे पर्यादयःशब्दाः प्रवर्तन्ते, तदैव पञ्चमी । एवं विशिष्टविषयार्थं योगग्रहणंम्, क्रियाव्याप्यत्वात् त्रिगतदिद्धितीया प्राप्ता अभिव्याप्याभिव्यापकसंबन्धे पाटलिपुत्रादेः षष्ठी प्राप्तेति पञ्चमी विधीयते । ननु किमाङ्ग्रहणेन मर्यादाभिविध्योराङो वर्तनात् । मर्यादा अवधिः सीमेति यावत् । अभिविधिरपि मर्यादाविशेषः । आधाटोऽपि मर्यादाविशेषः । आपाटलिपुत्राद् वृष्टो देवः इत्युक्ते पाटलिपुत्रस्यावधिरेव गन्यते । ननु किमर्थमिदं सर्वत्र बुद्धिकृतापायस्य विद्यमानत्वात् पञ्चमी सिद्धैव ? सत्यम् । प्रतिपत्तिगौरवनिरासार्थमेव । ननु ‘आमेखलं सञ्चरतां घनानाम्' इत्यत्र आङा सहयोगात् पञ्चमी कथन स्यात् । न च अव्ययीभावात् पञ्चम्या अम्भाव इति वाच्यम्, तत्र अपञ्चम्या इति वर्जनात् । नैवम्, सूत्रार्थापरिज्ञानात् । तथाहि अप-परि-आङ्' एभिर्युक्तेऽर्थे वर्तमानाल्लिङ्गात् पञ्चमी विधीयते । आमेखलम् इत्यत्रं तु समासेनैकपदत्वेन आमेखलम् इति समुदायस्य लिङ्गत्वाद् यस्मात् समुदायाद् विभक्तिर्विधातव्या तदर्थेन आङा योगो नास्ति । किन्त्ववयवमेखलाशब्देन सह आङो योगोऽस्ति । नहि अवयवमाश्रित्येदानीं विभक्तिर्विधीयते इति ।