________________
१५६
कातन्त्रव्याकरणम् अपर आह - चतुर्थ्या न भवितव्यम् । — देवदत्तं तृणाय मन्यते' इति प्रयोगोऽपि दृश्यते । तृणाय मत्वा ताः सर्वाः हरिमप्यमंसत तृणाय' ।तदा कर्माधिकारे पुनः कर्मग्रहणं कर्मणि कर्मणीति प्रतिपत्त्यर्थं तेन प्रधाने कर्मणीति स्थितम् । यत एवानादरो गम्यते, तप्रधानमिति भावः।
अश्मानं दृशदं मन्ये मन्ये काष्ठमुदूखलम् । अन्धायास्तं सुतं मन्ये यस्य माता न पश्यति ॥
इति पूर्णः श्लोकः ।।३१०। [वि० प०]
मन्यः । मन्यतेः कर्म मन्यकर्मेति समासे तिब्लोपः सूत्रत्वाद् इति विवरणेन दर्शयति- मन्यतेः कर्मणीति । ननु युष्मदोऽपि मन्यकर्मत्वात् कथं चतुर्थी न स्यादित्याह - यदीत्यादि । युष्पच्छब्दश्चतुर्थ्यन्तःस्वभावादादरविषय एव । कथमनादरे विधीयमाना चतुर्थी ततः स्यादिति भावः ।।३१०।
[क० च०]
मन्यः । एवं स्वभावादादरविषय इत्यादि । ननु कथमिदमुच्यते 'पापीयसे तुभ्यं वित्तसमर्पणमनुचितमित्यादौ चतुर्थ्यन्तस्य युष्मदोऽपि अनादरे दृष्टत्वात् । किं च 'चैत्रं तृणाय मन्ये,त्रैलोक्यराज्यमपितृणाय मन्ये' इत्यादौ चैत्रस्य राज्यस्य च युष्मद्भिन्नत्वाच्चतुर्थी कथं न स्यात् । न चात्रानादरप्रतिपादकात् तृणादिशब्दादेव चतुर्थी भवति । युष्पच्चैत्रराज्यशब्दास्तु अनादरप्रतिपादका न भवन्ति, किन्तु तृणादिशब्दा एवेति वाच्यम्, श्रुतत्वात् । येषामनादरस्तेभ्य एव चतुर्थी न च तृणादेरनादर इति वैपरीत्यस्याप्यर्थवत्त्वात् । उच्यते - स्वभावादिति यदुक्तं मन्यतियोगेनैव तद् बोध्यम् । तेन ‘पापीयसे तुभ्यं वित्तसमर्पणमनुचितम्' इत्यादावनादरप्रतीतावपि न दोषः । युष्पच्छब्दस्यानादराश्रयोपलक्षणत्वाच्चैत्रं तृणाय मन्ये इत्यादावपि चैत्रादिशब्दाच्चतुर्थ्यां सत्यामनादरो न गम्यते इति संक्षेपः।
ननु अनादरे चतुर्थी भवतीत्युक्ते आदरभिन्नमात्रे भवतीति प्रसज्ये नञि गृह्यमाणे तत्स्वरूपाख्याने भवतीत्यर्थः कथं न स्यात्, नैवम् । अनादरे न भवति स्वरूपाख्याने