________________
१४
कातन्त्रव्याकरणम्
इति रघुप्रयोगः | उच्यते – असर्वनाम्नोऽप्यवधिमात्रे तस् वक्तव्य इति वचनेऽपिशब्दाद् निषिद्धसर्वनाम्नोऽपि स्यात् । अत एव वृत्तिकृता - - - - - - - - - युष्मद्धीयते इति प्रत्युदाहृतम् । - - - - - - - - एवं च सति ‘त्वत्तो ब्रह्मविदां वर, मत्तस्तत् प्राप्यतां सर्वम्' इत्यपि भवति । टीकाकृता तु 'त्वत्तो मत्तो भवत्तः' इति विवक्षया भवत्येवेत्युक्तम् (क० च० २।६।२८)।
विषयसिद्धान्ताभिमतोत्कर्षादिसूचकानि स्मरणीयानि वचनानि १. शब्दानां नित्यत्वात् (दु० टी० २।४।८)। २. न हि कायप्राप्तावेवापायो भवति किन्तर्हि चित्तप्राप्तावपीति (वि० प०
२।४।८; द्र० - न्यासः १।४।२४) । ३. सर्वपारिषदत्वाद् व्याकरणस्य (वि० प० २।४।८; क० च० २।४।१७) । ४. 'चेतनावन्तः सर्वे भावाः' इति दर्शनेन (दु० टी० २।४।१३)। ५. लिङ्गं तु वस्तुमात्रस्याभिधायकम् (दु० टी०, वि० प० २।४।१७)। ६. अन्तरेण पुरुषकारेण न किञ्चिल्लभ्यते (दु० वृ०२।४।२२) । ७. संज्ञास्तु लोकतः एव प्रतिपत्तव्याः (वि० प० २।४।२३)। ८. नियतप्रयोगा हि केचिदव्ययाः (क० च० २।४।२६)। ९. हेत्वधीनः कर्ता, कधीनं करणम् (वं० भा० २।४।३०)। १०. संभ्रान्तिज्ञानमज्ञानमेव, ज्ञानकार्याकरणात् (वि० प० २।४।३८)। ११. शब्दार्थयोर्वाच्यवाचकलक्षणः संबन्धः (दु० टी० २।५।१)। १२. संशये तु सदा बहुवचनं प्रयुज्यत एव (वि० प० २।५।९)। १३. पञ्जिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति (दु० टी०२।५।१४)। १४. अक्षरमिह वर्णः स्वरो वा (क० च० २।५।२३)। १५. पदसंस्कारकं हि व्याकरणम् (दु० टी० २।६।१)। १६. शिल्पं विज्ञानकौशलम् (दु० टी०, वि० प० २।६।८)।
पाणिनीयव्याकरणाद्यपेक्षया कातन्त्रीयसूत्ररचनाविषयप्रक्रियादौ किं वैशिष्ट्यं तावदस्तीति सर्वमवगन्तुं प्रतिसूत्रं प्रस्तुता हिन्दीसमीक्षा द्रष्टव्या । आचार्यदुर्गसिंहेन कातन्त्रवृत्तावुदाहरणरूपेण यानि शब्दरूपाणि दर्शितानि सन्ति, तेषां सर्वेषां समीक्षानन्तरं साधनं कृतमस्ति ।