________________
भूमिका
१५ वृत्ति-टीका-पञ्जिका-कलापचन्द्रेतिव्याख्याचतुष्टयस्य सम्पादनातिरिक्तं श्रीपतिदत्तप्रणीतं कातन्त्रपरिशिष्टमपि परिशिष्टत्रितये योजितमस्ति ।प्रथमे परिशिष्टे कारकप्रकरणस्य ११२ सूत्राणि, स्त्रीप्रत्ययप्रकरणस्य च १०५ सूत्राणि सवृत्तिकानि समुद्धृतानि । द्वितीये परिशिष्टे समासप्रकरणस्य १८२ सूत्राणि, राजादिवृत्तेर्दुर्गसिंहकृतानि च ६५ सूत्राणि संगृहीतानि । तृतीये परिशिष्टे तमादिवृत्तेर्दुर्गसिंहप्रणीतानि ३२ सूत्राणि सवृत्तिकानि समुपस्थापितानि । चतुर्थपरिशिष्टे ७५७ रूपसिद्धिशब्दानाम्, पञ्चमपरिशिष्टे व्याख्याचतुष्टयोद्धृतानां २५० श्लोकानाम्, षष्ठपरिशिष्टे ७४९ संख्याकानां व्युत्पत्तिपरकशब्दानाम्, सप्तमपरिशिष्टे १४७ पारिभाषिकशब्दानाम, अष्टमपरिशिष्टे १३८६ विशिष्टशब्दवचनानाम्, नवमपरिशिष्टे ७७ उद्धृतग्रन्थानाम्, दशमपरिशिष्टे ११२ ग्रन्थकाराचार्याणाम्, एकादशपरिशिष्टे च हस्तलिखित-मुद्रितग्रन्थानाम् अक्षरानुक्रमेण पृष्ठ-संख्यानिर्देशसहिता सूची संनिबद्धास्ति ।
कृतज्ञताप्रकाश
सर्वप्रथमं सुकृतिनस्ते वैष्णव-शैव-जैनबौद्धप्रभृतय आचार्याः सास्मर्यन्ते ये संस्कृतटीकाप्रणयन-भोटभाषानुवाद-भोटटीकाप्रणयनादिभिर्विशिष्टैः कर्मभिः कातन्त्रवाङ्मयसमृद्ध्या माहेन्द्री व्याकरणपरम्परामुज्जीवयन्तोऽद्यापि जयन्ति, प्रेरयन्ति च स्वीयैस्तथ्यपरैर्वचनैः सततं सरलस्य संक्षिप्तस्य चास्य व्याकरणस्याध्ययनान्वेषणादिप्रवृत्तये । दिगम्बरजैनमुनिमान्यश्रीविद्यानन्द-श्रीकनकोज्ज्वलनन्दिप्रभृतयस्तेऽप्याचार्या नूनं वन्दनीया अभिनन्दनीयाश्च सन्ति ये पुरस्कारादिप्रदानेन कार्यस्यास्य समीचीनां समीक्षामारचयन्ति | मान्यांस्तान् प्रति कृतज्ञतामावहस्तेभ्यः सर्वेभ्यो धन्यवादप्रदानेनात्मानमहं कृतिनं मन्ये ।
___ कातन्त्रोणादिसूत्राणां संस्कृतहिन्दीभाषामाध्यमेन कार्य पूर्वं डॉ० धर्मदत्तचतुर्वेदेन, भोटभाषामाध्यमेन च आचार्यलोसङ्नो—शास्त्रिणा समनुष्ठितमासीत् । शिष्यहितावृत्ति-न्याससम्पादनप्रकाशनाभ्यां डॉ० रामसागरमित्रेण कातन्त्रजिज्ञासूनां महानुपकारः कृतः । मुम्बई-जयपुर-मेरठ-दिल्लीतः प्रकाशितया कातन्त्ररूपमालया कातन्त्रीयशब्दसाधुत्वपरिज्ञाने सौविध्यमुपस्थापितम् । डॉ० रामनारायणदासप्रभृतयः केचिद् विद्वांसः कातन्त्रीयपरिभाषादिविषयाणां निर्देशनादिनाऽस्य हितं साधयन्तः परिलक्ष्यन्ते । एतेनैतेऽपि कातन्त्रवाङ्मयश्रीसंवर्द्धनपराः सर्वे सन्ति धन्यवादार्हाः ।