________________
कातन्त्रव्याकरणम्
इदमविस्मरणीयमाभाति यन्मयाद्यावधि कातन्त्राध्ययनान्वेषणसम्पादनलेखप्रकाशनादिकं यत् किञ्चिदनुष्ठितं तत् सर्वं साम्प्रतं परमोपकारकं मन्वानाः दिल्लीस्थश्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य कुलपतयः राष्ट्रियसंस्कृतसंस्थानस्य निदेशकाश्च वाचस्पत्युपाधिभाजः श्रीवाचस्पत्युपाध्यायमहाभागा अतितरां सन्तोषं प्रीतिं चावहन्ति । एतत् सर्वं १४।३।९९ तमे दिनाङ्के दिल्लीनगरस्थप्राकृतभाषाभवनस्य सुरम्ये प्राङ्गणे आचार्य - उमास्वामिपुरस्कारप्रदानावसरे, १५-१६ ।३।९९ तमयोर्दिनाङ्कयोः श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य परिसरे आचार्यश्रीकुन्दकुन्दव्याख्यानमालान्तर्गतविशिष्टव्याख्यानप्रवर्तनावसरे च तदीयेन सारगर्भितेन व्याख्यानेन मया साक्षात्कृतमासीत् । तदीयामिमां प्रोत्साहनपरामुपकारपरम्परां संस्मरंस्तेभ्यो वचसामगोचरकल्पस्य धन्यवादस्य प्रदानं स्वकीयं सत्कर्तव्यं मन्ये । आचार्यश्रीवलदेवोपाध्याय-गुरुवर्यश्रीवैकुण्ठनाथशास्त्रि- पूर्वकुलपतिश्रीमण्डनमिश्रमहोदयान् प्रति प्रणामाञ्जलिना कृतज्ञतां विज्ञापयामि । ऐषमः अप्रैलमासस्य षड्विंशे दिनाङ्के मदीयाभिनन्दनसमारोहायोजनेन सारनाथस्थकेन्द्रीय - उच्चतिब्बतीशिक्षासंस्थानस्य निदेशकेन माननीयेन श्रीमता समदोड्रिनपोछेमहाभागेन कातन्त्रव्याकरणं प्रति यो हि आत्मीयः समादरभावः सम्प्रकाशितस्तदर्थं ते, पूर्वकुलपतिश्रीवेङ्कटाचलम्महोदयाः, संस्थानीयाधिकारिणः, सम्प्रेरकाः प्रो० रामशङ्करत्रिपाठिमहोदयाश्चावश्यं मत्पक्षीयधन्यवादराशिभाजो भवन्ति ।
आचार्यकुन्दकुन्दप्राकृतभाषासाहित्यपुरस्कारेण सम्मानितः प्राकृतविद्यासंपादकः प्रो० राजारामजैनमहोदयः, उपनिदेशको डॉ० सुदीपजैनः, टाइम्स ऑफ इण्डियापत्रस्य कार्यकारिनिदेशकः श्रीरमेशचन्द्रजैनः, जागृतवीरसमाजस्य सचिवः श्रीप्रतापजैनः, नित्यनूतनपत्रिकासंपादिका सुश्रीनिर्मलादेशपाण्डेया, तिब्बतीसंस्कृतादिकोशसम्पादको राज्यसभासदस्यश्च श्रीलोकेशचन्द्रमहोदयः, 'गाण्डीवम्' संस्कृतसाप्ताहिकपत्रसंपादकः श्रीराधेश्यामधरद्विवेदः, सोऽहंसन्देशपत्रिकासम्पादको डॉ० विजयशंकरचौबेमहोदयः, बीनास्थ - अनेकान्तज्ञानमन्दिरशोधसंस्थानस्य संस्थापकः ब्र० संदीपजैनसरलः, तिब्बतीसंस्थानीयन्यूजलेटरसम्पादकः, 'नवभारत टाइम्स - दैनिकजागरण-आज' दैनिकपत्रसम्पादकाश्चापि शुभाशंसा-जीवनवृत्तादिसन्देशसम्प्रदानेनोत्साहसंवर्धनपरा धन्यवादार्हाः सन्ति ।