________________
२८७
नामचतुष्टया याये पचमः समासपादः [दु० टी०]
पदे०।अव्युत्पन्न इह तुल्यशब्द एकपर्यायः । अधिकरणमर्थ उच्यते, अधिक्रियते नियुज्यतेऽभिधानाय शब्दोऽस्मिन्निति कृत्वा नीलोत्पलम् इति । इहाविदितविशेषे नीलगुणाधारे द्रव्ये सामान्येन नीलशब्दो वर्तते । उत्पलशब्दोऽप्यविदितगुणे गुणवति द्रव्ये । तत्र नीलसामान्यम् अन्येदेवोत्पलव्यतिरेकेणोत्पलसामान्यमपि नीलगुणनिरपेक्षमेवं यदा विवक्षितं तदा नास्ति सामान्यानाम् इतरेतरोपकार्योपकारकभावलक्षणः संबन्ध इति । कथमयं वृत्तेर्विषयः सामान्यानामसंबन्धात् ? सत्यम् । तौ नीलोत्पलशब्दौ विशिष्ट एव द्रव्ये व्यवस्थितौ प्रयोक्तृभिः स्वसंवेदनेन विदितस्वरूपयोरेतयोस्तत्रैव प्रयुक्तत्वात् । सामान्ये विशेषे चैकपदत्वात् (चैकरूपत्वात्) विशिष्टद्रव्यवाचित्वमेतौ शब्दौ एकैक प्रयोगेऽभिव्यक्तुमसमर्थों, तावेव तुल्याधिकरणभावेन संस्थितौ भेदेन प्रतिपादने परस्परतो व्यवच्छेदमिवाधाय नीलशब्द उत्पलशब्दं विशेषयतीवान्येभ्य उत्पलेभ्यः । उत्पलशब्दोऽपि नीलशब्दं व्यवच्छिनत्तीवान्येभ्यो द्रव्येभ्यः । परमार्थतः पुनरखण्डमेवैतदिति । प्रतिपत्तुर्गुणविषयो द्रव्यविषयश्च | यः संशयस्तमेव तौ शब्दौ व्यपनयत इति । एतयोर्जातिगुणाभिधायिनोभिन्नप्रवृत्तिनिमित्तयोर्भेदबुद्धिमारोप्य भेद्यभेदकभावं प्रतिपद्यन्ते । तथा चाह -
द्रव्येऽविज्ञातजातीये नीलशब्दः प्रवर्तते। अविज्ञातगुणे चैवोत्पलशब्दः प्रवर्तते ॥ सामान्यानामसंबन्धात्तौ विशेष व्यवस्थितौ । रूपाभेदाद् विशेषं तमभिव्यक्तुं न शक्नुतः॥ तावेव सन्निपतितौ भेदेन प्रतिपादने । अवच्छेदमिवाधाय संशयं व्यपकर्षतः॥
(वा० प० ३।१४।९-११) इति । विशेषणविशेष्यभावस्तुल्याधिकरणता च वस्तुतो न संभवति । नीलमुत्पलमिति पञ्च वस्तूनि संनिहितानि - नीलत्वं गुणसामान्यम्, नीलो गुणः, तदाधारो द्रव्यम् इति