________________
२८६
कातन्त्रव्याकरणम्
संख्यापूर्वपदेऽपि - सप्तर्षयः, पञ्चाम्राः । तथा – याज्ञिककितवः । एवं पापकुलालः, अणकनापितः । क्वचिदुपमानभूतं विशेषणम् – शस्त्रीव श्यामा शस्त्रीश्यामा । क्वचिद् उपमानभूतं विशेषणं परं स्यात् - पुरुषो व्याघ्र इव पुरुषव्याघ्रः । एवं पुरुषसिंहः । तथा पूर्वपुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः । एवम् अश्रेणयः श्रेणयः कृताः श्रेणिकृताः । तथा- कृताकृतम्, भुक्तापभुक्तम्, गतप्रत्यागतम्, यातानुयातम्, अशितानशितम्, क्लिष्टाक्लिशितम् । क्रयाक्रयिका, फलाफलिका, पुटापुटिका, मानोन्मानिका तथा सत्पुरुषः, महापुरुषः, परमपुरुषः,उत्तमपुरुषः , पुरुषोत्तम इति विशेषणंवा परं स्यात् । उत्कृष्टपुरुषः । तथा गोवृन्दारकः, गोनागः, अश्वकुञ्जरः, कतरकठः, कतमकठः । किंराजा । इभ्यपोटा, इभ्ययुवतिः । अग्निस्तोक इति विशेषणं परं स्यात् । एवं दधिकतिपयानि, गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत्, गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यापकः, कठधूर्तः । तथा गोप्रकाण्डम्, अश्वमतल्लिका, युवखलतिः, युवखलती, युवपलितः, युवपलिता, युववलिनः, युववलिना, युवजरम्, युवजरती ।तथा भोज्योष्णम्, तुल्यश्वेतः, सदृशश्वेतः, शुक्लकृष्णः, शुक्लशुक्लः, कुमारी च सा श्रमणा चेति कुमारश्रमणा | कुमारप्रव्रजिता | कुमारपण्डितः, कुमारपण्डिता । ___तथा गोगर्भिणी, अजगर्भिणी । तथा मयूर इव व्यंसको मयूरव्यंसकः । मयूरस्येव विगतावंसावस्येति वा विग्रहः । एवं छात्रव्यंसकः, कम्बोज इव मुण्डः कम्बोजमुण्डः । उच्चं च तदवचं चेति उच्चावचम् । एवम् उच्चनीचम् । न किञ्चन अकिञ्चनम् । अस्य वा किञ्चिन्नास्तीत्यकिञ्चनम् । पूर्वश्चासौ कायश्चेति पूर्वकायः । कायैकदेशे कायः । एवम् अपरकायः, अधरकायः, उत्तरकायः, मध्यकायः, मध्यमकायः, मध्याह्नः । अर्धं च तत् पिप्पली चेति अर्धपिप्पली । पिप्पल्यर्धमिति षष्ठीसमासोऽपि दृश्यते हि | चेद्यर्थं दक्षिणं मेरोः । शरार्धम्, चापार्धम्, चुल्लिकार्धमिति । असमप्रविभागेऽपि । न हीदमर्धजरतीयं लभ्यमिति । एवं द्वितीयभिक्षा, भिक्षाद्वितीयः । तृतीयभिक्षा, भिक्षातृतीयः । चतुर्थभिक्षा, भिक्षाचतुर्थः । तुर्यभिक्षा, भिक्षातुर्यः । तुरीयभिक्षा, भिक्षातुरीयः । मासजातः, संवत्सरजात इति बहुव्रीहिणा सिद्धम् । न ब्राह्मणः अब्राह्मणः इति कर्मधारयः । कर्मधारयप्रदेशा:- “कर्मधारयसंज्ञे तु पुंबद्भावो विधीयते" (२।५।२०) इत्येवमादयः ।। ३४२।