________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः तथाहि तिलेषु विकार्यमाणेष्वपि तैलस्याविनाशस्तिलैरुपकारः । आकाशे शकुनयः इति दिग्विशेषादवच्छेद उपकारः। उपरि शकुनयो नाधस्तादिति । कटे आस्ते इति देवदत्तस्य गुरुत्वात् पतने प्राप्ते तत्पतनप्रतिबन्धे कटादिर्न तत्पातमारभते इति । तत्र कटादेः स्वतन्त्रता आधेयस्योपकारः ? सत्यमेतत्, किन्तु “यस्याननि, अस्य च लोपः" (३।६।४८, ४९) इत्यादिषु विषयादिभेदः खलु दर्शनीय एव, अन्यथा प्रतिपत्तिरियं गरीयसीति ॥२९६।
[वि० प०]
य आधारः । आध्रियन्ते इति । "व्यानाच्च" (२।१।४९) इति चकाराद् घापवादो घञ्प्रत्ययः इति वक्ष्यति, तेनाधिकरणे घञ् । कारकाणां क्रियानिमित्तत्वाद् आध्रियन्ते क्रिया यस्मिन्नित्युक्तम् । ननु क्रिया हि द्विविधा - कर्तृस्था कर्मस्था च | तत्र कर्तृस्था कर्तृसमवायिनी, कर्मस्था कर्मसमवायिनी । ततो न काचित् क्रिया कटादिषु लभ्यते इति कथं तेषामधिकरणसंज्ञा कर्तृकर्मणोरेव स्यात्, क्रियाधारभूतत्वात् । तदयुक्तम् । तयोः परत्वात् कर्तृकर्मसंज्ञाभ्यामेवाघ्रातत्वात् । अतः कर्तृकर्मणोरेव क्रियाधारभूतस्याधिकरणसंज्ञा इत्युक्तं भवति । तथा चोक्तम् -
कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् ।
उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणं स्मृतम् ॥ इति । सचाधारस्त्रिविधः –औपश्लेषिकः,अभिव्यापकः,वैषयिकश्चेति ।क्रमेणोदाहरतिकटे आस्ते इत्यादि । तत्राधाराधेययोरन्यत्र सिद्धयोः संयोग उपश्लेषः, तत्र भव
औपश्लेषिकः। क्रीतादित्वादिकण् । यथा - कटे आस्ते इति । आधाराधेययोस्तुल्यजन्मा पृथग्देशभागानभिव्याप्य तिष्ठतीत्यभिव्यापकः। यथा-तिलेषु तैलम् । यद्यप्यत्र तिले तैलस्य संयोगस्तथापि देशाविभागाल्लोके संयोगव्यवहारो नास्तीति पृथगुच्यते । विषयो ह्यनन्यत्र भावः । यथा - चक्षुरादीनां रूपादयो हि विषयाः, तत्र भवो वैषयिकः। पूर्ववदिकण् । यथा -दिवि देवाः। तथेति सामीपिकोऽप्याधार इत्यर्थः । तथाहि गङ्गया सह घोषस्य न संयोगो नाप्यभिव्याप्तिः, नापि विषयभावो घटते इत्यौपश्लेषिकादिभ्यः सामीपिको भिद्यते । अथवा यथा पूर्व औपश्लेषिकः, एवमेषोऽपीति तथाशब्देन