________________
कातन्त्रव्याकरणम्
[दु० वृ०]
आध्रियन्ते क्रिया यस्मिन्नित्याधारः। आधारो यस्तदधिकरणसंज्ञं भवति । कटे आस्ते, तिलेषु तैलम्, दिवि देवाः । तथा गङ्गायां चोषः । अमुल्यग्रे करिशतम् । अधिकरणप्रदेशाः – “अधिकरणे सप्तमी" (२।४।१९) इत्येवमादयः ।।२९६।
[दु० टी०]
य आधारः । आध्रियन्ते इत्यादि । अभिधानाद् बहुलत्वाद् वा घञ् । कारकाणि क्रियापेक्षाणीति क्रियाणामाधार इति गम्यते। साक्षाच्च कर्तृसमवायिनी गम्यमानक्रियां धारयति कर्ता, कर्मसमवायिनी च पाकादिक्रियां कर्म चेति न तयोरधिकरणसंज्ञा, कर्तृकर्मसंज्ञाभ्यामाघ्रातत्वात् । व्यवहितयोश्च तयोः सिद्धावुपकुर्वद् अधिकरणमिति । तथा चाह -
कर्तृकर्मव्यवहितामसाक्षाद् धारयत् क्रियाम् । उपकुर्वत् क्रियासिद्धी शास्त्रेऽधिकरणं स्मृतम् ॥(वा०प०३।७।१४८) इति ।
स चाधारश्चतुर्विधः- औपश्लेषिकः, अभिव्यापकः, वैषयिकः, सामीपिकश्चेति। आधाराधेययोरन्यत्र सिद्धयोरुपश्लेषः संयोगलक्षण इत्यौपश्लेषिकः। आधाराधेययोस्तुल्यजन्मा पृथग्देशभागानभिव्याप्य तिष्ठतीत्यभिव्यापकः समवायलक्षण इति । विषयो ह्यनन्यभावो यथा चक्षुरादीनां रूपादयो विषया इति वैषयिको भिद्यते । गङ्गादीनां संयोगसमवायलक्षणो न घोषादिरिति सामीपिको भिद्यते । कश्चिदाहगङ्गासमीपो देशोऽपि गङ्गेति, उपचारात् ।
आधारस्त्रिविधो ज्ञेयः कटाकाशतिलादिषु । इति । अन्यस्त्वाह
उपश्लेषस्य चाभेदस्तिलाकाशकटादिषु । उपकारास्तु भियन्ते संयोगसमवायिनाम् ॥ अविनाशो गुरुत्वस्य प्रतिबन्धे स्वतन्त्रता । दिग्विशेषादवच्छेद इत्याया भेदहेतवः॥
(वा०प०३।७।१४९-५०) इति।