________________
कातन्त्रव्याकरणम् सूच्यते । यथा गङ्गासमीपो देशो गङ्गेति, उपचारादिति त्रिविध एवाधारः । अगुल्यग्रे करिशतमिति औपचारिकोऽप्याधारः कैश्चिद् इष्यते। तद् अयुक्तम् । औपश्लेषिक एवायमपि सन्निविशते, उपचरितस्य करिशतस्य अगुल्यग्रविषयत्वादिति ।।२९६।
[क० च०]
य आधारः । आध्रियन्ते क्रिया यस्मिन्निति आधारः इति वृत्तिः, आध्रियन्ते आतिष्ठन्ति क्रिया यस्मिन्नित्यर्थः । सा च द्विविधा कर्तस्था कर्मस्था चेति । कर्तस्था यथा देवदत्तो गच्छतीत्यादि । अत्र पादविहरणात्मिका क्रिया कर्तर्येव प्रतीयते। कर्मस्था यथा ओदनं पचतीत्यादि, अत्र पचनक्रिया ओदननिष्ठत्वेन प्रतीयते । नन्वधिश्रयणादिरूपा पचनक्रिया कर्मस्थेति कथमुच्यते, यावता अधिश्रयणादिरूपा पचनक्रिया कर्तृस्थत्वेनैव प्रतीयते । कथमन्यथा देवदत्त ओदनं पचतीत्यत्र देवदत्तस्य कर्तृत्वं क्रियाश्रयत्वाभावात् ? सत्यम् । यद्यपि ओदनं पचतीत्यत्र कर्तुनिष्ठैव विक्लित्त्यनुकूलाधिश्रयणादिरूपा पचनक्रिया धातुवाच्या, तथापि धातुवाच्यक्रियैकदेशविक्लित्तिरूपस्य कर्मस्थत्वेन प्रतीयमानत्वात् पचिक्रिया कर्मस्थोच्यते । तां विक्लित्तिमादायैव स्थाल्यां पचतीत्यत्राधारः प्रतीयते, न त्वधिश्रयणादिरूपायाः पचिक्रियायाः परम्परयापि 'स्थाल्यां प्रवृत्तिरनुभूयते । न च विक्लित्तेः पदार्थैकदेशत्वाद् आकाङ्क्षाविरहेण कथमधिकरणान्वय इति वाच्यम्, आकाङ्क्षायाः फलवत्त्वकल्पनात् । एवं भिदेरपि फलरूपद्वैधीभावस्य कर्मनिष्ठत्वं बोध्यम् ।
यद् वा विक्लित्त्यादिरेव मुख्यत्वेन पचत्यादिवाच्यः, अधिश्रयणादिस्तु लक्षणयाभिधीयते । तदुक्तम् -
कर्मस्थः पचतेर्भावः कर्मस्था च भिदेः क्रिया।
अस्यासिभावः कर्तृस्थः कर्तृस्था च गमेः क्रिया ॥ परत्वादिति। ननु कथं परत्वं संगच्छते, उभयोः सावकाशत्वाभावात् । यथा कटे आस्ते इत्यत्र कर्तव्यवहितत्वेन स्थितिक्रियाधारभूतत्वाद् अधिकरणस्य सावकाशता
१.अथ कथमिदमुक्तम् - परम्परया वृत्तिरस्त्येव । तथाहि स्वजन्याश्रयत्वरूपसंबन्धेन ? सत्यम् । एवम्भूतपरम्परासम्बन्धोऽस्ति, किन्तु कर्तृकर्मद्वारा परम्परासंबन्धो यदा तदैवाधिकरणम् । अत्र क्रियाद्वारापि व्यवधानमिति ।
२. ननूभयसावकाशतादृढीकरणे कथं कटे आस्ते इत्यत्राधिकरणस्य सावकाशता कर्तृकमणोरेव स्याद् इत्येवकारेण साक्षात् क्रियाधारभूतस्याधिकरणताभिप्रायतः ? सत्यम् । एवोऽप्यर्वे । ननु यदि कटे आस्ते इत्यत्र कर्तृव्यवहितेन स्थितिक्रियाधारभूतत्वाद् अधिकरणस्य सावकाशता इत्युच्यते, तदा न काचित् क्रिया कटादिषूपलभ्यते कयं तेषामधिकरणसंज्ञा कर्तृकर्मणोरेव स्यात्, क्रियाधारभूतत्वादिति पजी कथं संगच्छते, यावता क्रियाधारत्वाभावात् कटादावधिकरणसंज्ञा न भविष्यति,