________________
नामचतुष्टयाध्याये चतुर्थः कारकपादः
यथा यूपशब्दाद् भवति तथा दारुशब्दादपि स्यात् । नैवम् । दारुशब्दादन्तरङ्गत्वात् प्रथमैवास्तीति टीकाकारः । [ अत एव सोऽर्थोऽस्येत्यत्र तच्छब्देन विकृतेरभिधानसंबन्धः । तस्मै इदमित्यत्र तदुद्देश्यकमिदमिति । तदर्थभावे द्योत्य इति - तदर्थभावो निमित्तनैमित्तिकस्य संबन्धः । तस्मिन् प्रकाश्ये षष्ठ्यां प्राप्तायां चतुर्थी, षष्ठीवदप्रधानादेव निमित्तशब्दाद्धेती न तृतीया हेतुसंबन्धस्य चतुर्ध्या उक्तत्वादन्तरङ्गश्च प्रथमेत्युच्यते ] ।
1
१६३
न च यूपाय दारुणो धनम् इत्यत्रापि प्रथमाविरहाच्चतुर्थी स्यादिति वाच्यम् । . अत्रापि विशेष्यीभूतधनसंबन्धापेक्षया षष्ठ्या एवान्तरङ्गत्वात् । नहि सा हि विशेष्यीभूतधनसंबन्धेन विहिता षष्ठी कथं विशेषणीभूतयूपसंबन्धाश्रितया चतुर्थ्या बोध्यताम् । भोक्तुमोदनस्य पाचकश्छात्र इत्यादौ दोषात् । अथ तर्हि 'दारुणा यूपः ' इत्यत्र दारुशब्दाच्चतुर्थी स्यात् । तथा च स्वामिनि विधीयमानया षष्ठ्या यथा ‘राजस्वामिकः पुरुषः’ इति धीरुत्पाद्यते, तथा इहापि दारुप्रयोजको यूप इति चतुर्थ्या बुद्धिः स्यात् । न चात्रापि हेत्वर्थे तृतीयैवास्ति बाधिकेति वाच्यम् । हेतौ वाच्ये यस्य यूपादेर्हेतुर्दार्वादिस्तस्माद् यूपादेस्तृतीयेति सूत्रार्थं विधाय 'यूपाय दारु' इत्यादौ तस्य विषय इति वैपरीत्यस्यापि सुवचत्वात् ।
अथ तत्र श्रुतत्वाद् हेतुवाचकादेव तृतीया भविष्यतीति चेत्, इहापि तदर्थवाचकादेव चतुर्थी स्यादिति विनिगमनाभावश्चेदुच्यते - अत्र तच्छब्दस्यार्थस्तदर्थः, तदर्थशब्दस्यार्थश्चेति द्वयमेव श्रुतम् । हेत्वर्थ इत्यत्र तु हेतुरेव श्रुत इति ततश्चोभयत्र श्रुतव्याख्यायां सत्यां तत्र श्रुते हेतौ हेतुवाचकात् तृतीयैव । अत्र सूत्रपारिशेष्यादेव श्रुतत्वात् तच्छब्दवाच्याच्चतुर्थीति वक्तुं शक्यते एवेति । यदीदमपि श्रुतमिति कृत्वा तदर्थवाच्यादनेन चतुर्थी विधीयते, तदा अश्रुतादेव तृतीया स्यादिति । तस्मादुभयत्र 'श्रुतसंभवेऽश्रुतकल्पनाया अनौचित्यम्' इति । वृत्तौ द्योत्य इति यदुक्तं तत् पञ्चकपक्षमवलम्ब्यैव । ननु यदि प्रयोजनवाचकाच्चतुर्थी तर्हि कथं 'ब्राह्मणाय पयः' इत्यादिप्रयोगः । नहि ब्राह्मणः पयसः प्रयोजनम् ? सत्यम् । ब्राह्मणशब्दस्य तृप्तौ लक्षणा, तेन 'ब्राह्मणतृप्तये पयः' इति । अतः पयसः प्रयोजनं तृप्तिरिति । तथा क्रियायोगे चतुर्थीत्यादि नेदं पाणिनिसूत्रम् । तथाहि "कर्मणा यमभिप्रैति स संप्रदानम्” (अ० १ | ४ | ३२) इति सूत्रे कर्मशब्देन क्रियाप्युच्यते । अभि - प्रेत्युपसर्गद्वयोपादानाद् 'ग्रन्थाधिक्येऽर्थाधिक्यम्' इति न्यायात् तेन क्रिययाभिप्रेयमाणस्य संप्रदानसंज्ञेति न्यासः । सा च लक्षणानुरोधाद् गल्ह-सन्नह - शीङां योगेनैवेति पाणिनिमतानुसारिणः ।