________________
१६२
कातन्त्रव्याकरणम् च प्रथमाविधिरिति । श्राद्धार्थं निगलते कुत्सयतीत्यर्थः । युद्धार्थं संनह्यते सन्नहनं करोतीत्यर्थः । पत्यर्थं कस्याश्चिद् देवतायाः पुरः शेते इत्यर्थः । तथा मूत्राय संकल्पते यवागूः, मूत्राय संपद्यते यवागूः । या मूत्रं सम्पद्यते सा मूत्रार्था भवतीति ।
वाताय कपिलिका विद्युदिति । ननु वातस्य निष्पत्तौ न विद्युतो निमित्तत्वम्, अपि तु स्वकारणस्यैव विद्युता अनुसूच्यते इति कथं तादर्थ्यम् ? सत्यम् । यस्तु यस्य ज्ञापकः, स तदर्थ एव । वातार्थत्वात् कपिलिकाया विद्युत इति । क्लृप्त्यर्थे सम्पद्यमाने कर्तरि, उत्पातेन ज्ञाप्यमाने चतुर्थी न वक्तव्येति । तथा एधेभ्यो व्रजति, फलेभ्यो व्रजति । तादर्थ्यविवक्षेति वक्ष्यति । तथाहि य एधानाहर्तुं व्रजति स एधार्थं व्रजतीति तादर्थ्यम् अस्ति । क्रियार्थक्रियोपपदस्य गम्यमानत्वात् तदप्रयोगे कर्मणि चतुर्थी न वक्तव्येति स्वभावात् शब्दस्य तादर्थ्यनिष्ठत्वाद् आहर्तुमित्यादिक्रियायामविवक्षितायामिति | न तथा प्रविश पिण्डीम्, प्रविश तर्पणम्, प्रविश गृहम्, पिण्डी भक्षय, गृहं प्रविश, तर्पणं पिब' इति नियोगवाच्यो वाक्यार्थ इति ।।३१२।
[वि० प०]
तादर्थे । ननु तादर्थ्य इति कथमिदमुच्यते,न खल्वेतच्छर्ववर्मकृतसूत्रमस्तीति ? सत्यम् । संप्रदान एवेयं चतुर्थी । तथाहि यस्मै दित्सेति । यस्मै दातुं संकल्पयितुमिच्छा मतिर्भवति तत् सम्प्रदानमिति। अत्र तु वृत्तिकृता मतान्तरमादर्शितम् । इह हि प्रस्तावे चन्द्रगोमिना (चा० २।१।७९) प्रणीतमिदमिति । तथा क्रियायोगे चतुर्थी न वक्तव्येत्याह- श्राद्धायेत्यादि । श्राद्धार्थं कुत्सयति, युद्धार्थं सन्नहनं करोति, पत्यर्थं कस्याश्चिद् देवतायाः पुरतः शयनं करोतीत्यर्थः । तथा क्लृपि सम्पद्यमाने चतुर्थीत्यपि न वक्तव्यम् । क्लृप्त्यर्थधातुप्रयोगे सम्पद्यमाने कर्तरि तादर्थ्यस्य विद्यमानत्वादित्याह - तथेति । या हि मूत्रं सप्पद्यते यवागूः सा मूत्रार्थेति । तथा उत्पातेन ज्ञाप्यमाने चतुर्थी न्यायादेव सिद्धा । उत्पातस्य कपिलिकाया विद्युतो वातार्थत्वात् । कथं पुनर्वातार्थत्वं विद्युतः, यावता वातो हि स्वकारणकलापादेवोत्पद्यते, केवलं विद्युता ज्ञाप्यते इति चेत् ? सत्यम् । यद् यस्य ज्ञापकं तत् तदर्थमित्यदोषः ।।३१२।
[क० च०]
तादर्थे । ननु 'कृत्तद्धितसमासेभ्यस्त्वतल्भ्यां संबन्धाभिधानम्' (सीर० परि० १३०) इति न्यायात् तादर्थ्यपदेन तदर्थसंबन्ध उच्यते । ततश्च संबन्धस्योभयनिष्ठत्वाद्