________________
प्रस्तावना
इदं हि महत्प्रमोदास्पदं स्थानं यत् साम्प्रतं द्वितीयभागात्मकस्य ‘कातन्त्रव्याकरणस्य' द्वितीयः खण्डः प्राकाश्यं यातीति । व्याकरणमिदं विविधैष्टीकाभिः परिशिष्टादिभिश्च समलङ्कृत्य सम्पादितं डॉ० जानकीप्रसादद्विवेदिमहोदयेन । व्याकरणस्यैतस्य द्वौ भागौ पूर्वमेव विश्वविद्यालयादस्मात् प्रकाशितौ । सम्पूर्णानन्दसंस्कृतविश्वविद्यालयोऽयं केन्द्रस्थानं सकलानां शास्त्राणां प्राच्यभारतीयविद्यानां हस्तलिखितपाण्डुलिपिग्रन्थानाञ्च । पारेलक्षं हस्तलिखितपाण्डुलिपिग्रन्थाः सगृहीताः सन्तो राजन्ते विश्वविद्यालयस्य सरस्वतीभवनाख्ये विश्वविख्याते पुस्तकालये । जानन्त्येव विद्वांसो यत्तासां पाण्डुलिपीनां प्रकाशने सम्पादने गवेषणे विश्लेषणे च सर्वात्मना सन्नद्धोऽयं विश्वविद्यालयः । अस्यामेव शृङ्खलायां डॉ० द्विवेदिसम्पादितं कातन्त्रव्याकरणमपि प्रकाशपथातिथीभवति ।
पाणिनीयादिव्याकरणापेक्षया संक्षिप्तत्वात् कातन्त्राभिधानेन लोके यद् विदितं व्याकरणं तदेव रचनाकारादिविविधाश्रयवशात् कलाप - कौमार - शार्ववर्मिकदौर्गसिंहीयनामभिर्व्यवह्रियते विदितवेदितव्यैर्बुधैर्वैयाकरणैः । अर्थलाघवप्रधानमिदं व्याकरणं न केवलं भारते, अथ च तिब्बत - नेपाल-भूटान-श्रीलङ्कादिदेशान्तरेष्वपि अध्ययनाध्यापनादिविधौ प्रवर्तितमभूत् । वङ्ग-उत्कल-शारदालिपिमयैर्हस्तलेखैः, द्वादशग्रन्थानां भोटभाषानुवादेन, पञ्चविंशतिभोटभाषाव्याख्याभिः, जैनाचार्यकृताष्टाविंशतिटीकाभिः, विविधाचार्यकर्तृकवङ्गभाष्यटीकाटिप्पणीभिः, एतदाधारितबालशिक्षागान्धर्वकलाप-कच्चायनादिव्याकरणैर्मुद्रितैश्चापि बहुभिर्ग्रन्थैरस्य समृद्धं वाङ्मयं वीक्ष्य को नाम सुधीजनो महतीं मुदं नाप्नुयात् । दिगम्वरजैनमुनिर्विद्यानन्दः कातन्त्रम् अधीयानः समीक्षमाणश्च स्वनामान्वर्धतां भजते । सुकृती मान्यो वदान्यश्च स आचार्य-उमास्वामी - पुरस्कारेण कातन्त्रसिन्धुसम्मानोपाधिना च सम्पादकं डॉ० जानकीप्रसादद्विवेदं १४- ३ - ९९ तमे दिनाङ्के दिल्लीमहानगरे महता समारोहेण सम्भूपितवान् । चतुर्दशदलाईलामा श्रीतेनजिनग्यात्सोमहोदयो गुरुमुखादधीतं कलापमद्यापि स्वकीयव्याख्यानेषु स्मरन्नास्ते । जैनमुनयो मन्यन्ते कातन्त्रकारमाचार्यशर्ववर्माणं दिगम्बरजैनमुनिम्, तस्मात् ते सर्वात्मना जैनव्याकरणमिदमुद्घोषयन्ति ।