________________
कातन्त्रव्याकरणम्
लिङ्गार्थस्यान्तरङ्गत्वात् पूर्वं प्रथमा ततो विशेषणत्वमिति वाशब्देनैतत् सूचितम् । तेन " यस्य च भावेन भावलक्षणम्" (अ० २ | ३ | ३७) इति न वक्तव्यमिति स्थितम् । विशेषणं हि व्यवच्छेदकम्, तच्च प्रसिद्धमेव नाप्रसिद्धम् । न हि स्वयमप्रसिद्धं परस्य विशेषणं भवतीत्याह – प्रसिद्धेत्यादि । भावः क्रियेति पर्यायः । तथा भावे विशेषणेऽनादरे गम्यमाने नित्यं सप्तम्यां पक्षे षष्ठीविधानार्थं “षष्ठी चानादरे" (अ० २ | ३ | ३८) इति न वक्तव्यमित्याह - रुदत इत्यादि । रुदन्तम् अनादृत्य गतः इत्यर्थः । इह 'रुदतः संबन्धी गतः' इत्युक्तेऽपि न काचिद् वस्तुक्षतिरिति भावः । पक्षे रुदति प्राव्राजीदिति ।। ३१९ ।
[ क० च० ]
काल० | “यस्य च भावेन भावलक्षणम्" (अ० २ | ३ | ३७ ) इति पाणिनिः । अस्यार्थः- यस्य भावेन क्रिययाऽन्यस्य क्रियान्तरं लक्ष्यते, ततः सप्तमी भवति । ' गोषु दुह्यमानास्वागत ः' इत्यत्र गवां दोहनक्रिययाऽन्यस्य देवदत्तादेर्गमनं वक्ष्यते । अस्मन्मते तु कालभावयोर्विशेषणभूतयोर्वर्तमानाल्लिङ्गात् सप्तमी भवतीत्युक्ते देवदत्तस्य भोजनेन यज्ञदत्तः सुखी भवति इत्यत्र भोजनस्य सुखीभवनक्रियाविशेषणत्वाद् भोजनशब्दात् कथं सप्तमी न स्यात् ? सत्यम् । लक्षणया भावपदेन क्रियाविशिष्टाभिधायकशब्दवाच्यो भावो गृह्यते । अत्र भावमात्रवाचकाद् भोजनशब्दात् कथं भवतु ।
१८२
ननु परमते देवदत्तशब्दात् कथन्न सप्तमी, तस्य भोजनक्रियया यज्ञदत्तादेः सुखीभवनक्रियाया लक्ष्यमाणत्वात् । तदत्र समाधानम् - यस्य क्रियया क्रियान्तरं लक्ष्यते तवाचकपदोपस्थापितैव क्रिया प्रत्यासत्त्या गृह्यते । अत्र देवदत्तशब्देन क्रिया नोपस्थाप्यते इति । ‘दुह्यमानास्वागतः’ इत्यत्र तु दुह्यमानपदेनैव दोहनक्रिया तद्विशिष्टद्रव्यं चोपस्थाप्यते । गोशब्दात्तु दुह्यमानपदसामानाधिकरण्यादेव सप्तमीति । नाम्नि प्रयुज्य - माने इत्यादिदर्शनात् समानाधिकरणानामेकैव विभक्तिरिष्यत इति । यद् वा भावशब्देनात्र क्रियाविशिष्टवाचकस्य यो विशेषणीभूतो भावः स इह गृह्यते इत्युक्तं पूर्वम् । ततश्च क्रियाविशिष्टस्य द्रव्यस्य वाचको यः शब्दस्तस्य वाच्ये भावे विशेषणीभूते गम्यमाने यः क्रियाविशिष्टस्तद्वाचकादेव सप्तमी । तेन गोषु दुह्यमानासु इत्युभयत्रैव सप्तमी विधीयते । क्रियाविशिष्टाया गोरुभयशब्द एव वाचक इति । तथा च "अदसः पदे (२।२।४५) इत्यत्र पदशब्दादपि दर्शनात् ।
7:"