________________
८
कातन्त्रव्याकरणम्
[दु० बृ० ]
अव्ययीभावसमासादकारान्तात् परयोस्तृतीयासप्तम्योः स्थानेऽम् भवति वा । उपकुम्भम्, उपकुम्भेन | उपकुम्भम्, उपकुम्भे ||२८७|
[दु० टी० ]
-
वा तृतीया० । ऋद्ध्यर्थनदीवंश्यान्तस्य व्यवस्थितविभाषया सप्तम्या नित्यम् अन्भावः। ऋद्ध्यर्थे - सुमगधम् । नद्यन्ते - द्वियमुनम् । देशे – उन्मत्तगङ्गम् । वंश्यान्ते – एकविंशतिभारद्वाजम् । संख्यावंश्येन नदीभिश्च अन्यपदार्थे संज्ञायां समासे सत्यव्ययीभावो लोकोपचारात् सिद्ध इति दर्शयिष्यामः । कथम् उपगङ्गम् इति विभाषा दर्शिता नदीसमासग्रहणात् । तृतीयायां तु - सुमद्रम्, सुमद्रेणेति ॥ २८७॥ [ क० च० ]
वा तृतीया० । विभक्तीनां मध्ये तृतीयासप्तम्योः स्थानेऽम् भवतीति विशेषणत्वेनानुवृत्तौ परसूत्रे विभक्तीनामित्यस्यानुवृत्तिः प्रकृतत्वात् । ननु तृतीयासप्तम्योः नापि अपञ्चम्या इत्यस्यासम्भवाद् अत्रैवानुवृत्तिः । ननु पूर्वेणैव सिध्यति, यदिह पुनर्विधानं तद् विकल्पार्थं भविष्यति, किमत्र वाग्रहणेन चेन्नियमार्थं कथन्न स्यात् चेत्, न । यदि तृतीयासम्तम्योरेवाम्, नान्यासां विभक्तीनामिति नियम्यते, तदा पूर्वसूत्रस्य वैयर्थ्यापत्तिः । अथ तृतीयासप्तम्योरमेव न त्वकारलोप इति नियमो भविष्यति । तदयुक्तम् । अमि कृतेऽकारलोपकल्पनानौचित्यात् तस्माद् विकल्पार्थं भविष्यति । सत्यम् । “ऊर्णोतेर्गुणः” ( ३ | ६ |८५ ) इतिवत् पूर्वत्र विकल्पार्थः स्यादिति वाग्रहणम् || २८७|
.
[समीक्षा]
'उपकुम्भ + टा, भ्याम्, भिस् । उपकुम्भ + ङि, ओस्, सुप्' इस अवस्था में पाणिनीय तथा कातन्त्र दोनों ही व्याकरणों में वैकल्पिक अमादेश की व्यवस्था करके 'उपकुम्भम्, उपकुम्भेन' आदि शब्दरूप सिद्ध किए जाते हैं । पाणिनि का सूत्र है – “ तृतीयासप्तम्योर्बहुलम् " ( अ० २।४।८४) । अतः उभयत्र प्रक्रियासाम्य ही कहा जा सकता है ।
-