________________
कातन्त्रव्याकरणम्
प्रस्तूयते । कातन्त्रीयं किञ्चिद् विधानं पाणिनीयव्याकरणेन सह साम्यं भजते, किञ्चिच्च ततो भिन्नरूपमालक्ष्यते । तद् यथा -
विध्यादिनिर्देशे साम्यम् (सप्तदश कार्याणीह दर्शितानि) १. अव्ययीभावसमासेऽमादेशः (उपकुम्भम्)
कातन्त्रे - अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः (२।४।१)। पाणिनीये - नाव्ययीभावादतोऽम्त्वपञ्चम्याः (अ०२।४।८३) । अपादानसंज्ञा (वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति) कातन्त्रे- यतोऽपैति भयमादत्ते वा तदपादानम् (२।४।८)। पाणिनीये - ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः (अ० १।४।२४-२५)।
एवं सम्प्रदानादयोऽन्या अपि कारकीयाः संज्ञाः समाना एव । ३. प्रथमाविभक्तिविधानम् (उच्चैः, वृक्षः, एकः, द्रोणः, हस्तः, काष्ठम् )
कातन्त्रे- प्रथमा विभक्तिर्लिङ्गार्थवचने, आमन्त्रणे च (२।४।१७-१८)। पाणिनीये - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, संबोधने च
(अ० २।३।४६ - ४७)। एवमन्यासामपि विभक्तीनां विधाने प्रायेणैकरूपतैवावलोम्यते । ४. कर्तृकर्मकारकयोः षष्ठीविभक्तिः (भवतः शायिका, अपां स्रष्टा)
कातन्त्रे- कर्तृकर्मणोः कृति नित्यम् (२।४।४१) । पाणिनीये - कर्तृकर्मणोः कृति (अ० २।३।६५) । नकारस्य णकारादेशः (पुरुषेण, अhण, अर्केण, दर्पण, तिसृणाम्) कातन्त्रे- रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि (२।४।४८)। पाणिनीये - रषाभ्यां नो णः समानपदे:-क्षुम्नादिषु च (अ० ८।४।१-३९)। विशेष्यविशेषणपदयोः समासस्य कर्मधारयसंज्ञा (नीलोत्पलम्) कातन्त्रे- पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः (२।५।५)। पाणिनीये - तत्पुरुषः समानाधिकरणः कर्मधारयः (अ० १।२।४२)।
अन्या अपि समाससंज्ञाः समानरूपतां बिभ्रति ।