________________
१६८
कातन्वयाकरणम् इति । शिष्यमपेक्ष्य प्रधानां गां प्रति विशेषणतया गुणीभूतत्वात् स्वस्वामिसम्बन्धप्रतिपादनाय षष्ठी स्यादेव । प्रधानस्य क्रियासंबन्धादप्रधानस्य यद्यपि (वस्तुतः) आगमनं प्रति कर्तृत्वमस्ति, तथापि सहभावमात्रं शब्देनोदितम् । विवक्षितं वा कर्तृत्वं सामर्थ्यादर्थादनुमेयमिति, अतस्तृतीयेयमुच्यते ।। ३१४।
[वि० प०]
तृतीया०। सहार्थेन योग इत्यनेन सहार्थे सहशब्द इति दर्शितम् । सहार्थयोगश्च क्रियागुणद्रव्यैर्भवति । क्रमेणोदाहरति - 'पुत्रेण सहागतः' इत्यादि । सहार्थशब्दप्रयोगमन्तरेणापि तदर्थयोगविवक्षायां तृतीयां दर्शयति । तथेत्यादि । 'पुत्रेण स्थूलः, पुत्रेण गोमान्' इति प्रत्येकम् अभिसंबन्धः। सहार्थयोगस्योभयनिष्ठत्वात् कुतस्तृतीया प्रवर्तताम् इत्याह - तृतीयापीत्यादि । षष्ठीबाधकं प्रकरणमिदम्, षष्ठी चाप्रधानादेव प्रवर्तते । तृतीयापि तत एव युज्यते । यस्माल्लिङ्गार्थस्यान्तरङ्गत्वात् प्रधानात् प्रथमैवास्ति बाधिकेति ।।३१४।
[क० च०]
तृतीया० । सहार्थे सहशब्द इति । एतत्तु योगग्रहणबलादेव लभ्यते, अन्यथा सहेनेति विदध्यात् । क्रियागुणद्रव्यैरिति । ननु चैत्रो मैत्रेण ब्राह्मणत्ववानित्यादौ कथं जात्या सहार्थ उपपद्यते ? सत्यम् । क्रियागुणद्रव्यरित्युपलक्षणमिति केचित् । वस्तुतस्तु धात्वर्थः क्रिया, गुणो गौणः शब्दस्य प्रवृत्तिनिमित्तमिति यावत् । द्रव्यं विशेष्यं यद् यद् विशिष्यते लोके तत्तद् द्रव्यमिहेष्यते' इति वैयाकरणपरिभाषावशादिति । अत एव प्रवृत्तिनिमित्तरूपगुणविशिष्टद्रव्ये लिङ्गवाच्ये बोध्ये 'पुत्रेण सह स्थूलः' इत्यादौ पदार्थैकदेशेन स्थूलत्वेनापि समं पुत्रेणेत्यस्य पदार्थस्य पदान्तरान्वयः । आकाङ्क्षायाः फलवत्कल्प्यत्वेनापि विद्यमानत्वात् । [ पञ्यां तृतीयापि षष्ठीवदप्रधानादेवेति तर्हि कथम् - 'एका सुमित्रा सह लक्ष्मणेन' इत्यत्र प्रधानाल्लक्ष्मणात् तृतीया स्यात् शत्रुघ्नादेव तृतीया प्रयुज्यते कनिष्ठत्वात् । अत्र केचित् शत्रुघ्नस्यैव प्राधान्यात् प्रसवक्रियासमापकत्वाद् इत्याहुः । यस्य क्रियासंबन्धो नास्ति तस्यैवाप्रधानत्वम् । न तु कनिष्ठत्वं लघुत्वं वेति । तेन 'परेण सहागतः' इत्यत्र देवदत्तस्यैव क्रियासंबन्धः कर्तृत्वात्, न पुनः परस्य । तेन 'पित्रा सहागतः पुत्रः' इत्यपि सिद्धमिति ] ||३१४।