________________
४९२
कातन्वव्याकरणम् [दु० वृ०]
रषोरन्तस्थो भवति डे परे । चतुर्णां पूरणश्चतुर्थः । एवं षष्ठः । आगमत्वाद् विसर्गो डत्वं च न स्यात् ।।३८५।
[दु० टी०]
अन्त० । 'थ' इति सस्वरोच्चारणमुत्तरार्थम् । इह त्वकारलोपः स्यादेव । अन्तग्रहणमागमार्थमित्याह - आगमत्वादित्यादि । ननु प्रत्ययेऽपि कृते चतुर्थीषष्ठीति निर्देशाद् विसर्गो डत्वं च नास्तीत्यवसीयत एव । अत्यल्पमिदं देश्यम् । त्रयोऽप्येते योगा व्युत्पत्तिपक्षेऽपि ज्ञापकादेव सिद्धाः । यत् क्रियन्ते तत् सुखप्रतिपत्त्यर्थम् । सविकल्पान्यपि ज्ञापकानि भवन्ति ||३८५/
[वि०प०]
अन्तग्रहणमिहागमार्थम् । ततः किमित्याह -आगमत्वादित्यादि । यदि पुनस्तत्र थप्रत्ययः स्वतन्त्रः स्यात् तदा 'चतुर्थः' इत्यत्र विसर्गः, 'षष्ठः' इत्यत्र डत्वं स्यात् । आगमत्वे तु नायं दोषः, तस्य रषग्रहणेनैव ग्रहणात् ।। ३८५।
[क० च०]
अन्त० । 'थ' इत्यकारकरणमुत्तरार्थम् । अन्यथा 'कतिपयथः' इत्यादावदन्तत्वं न स्यात् । इह तु डानुबन्धेऽकारलोपोऽस्त्येवेति । आगमत्वादित्यादि । अथ षष्ठीचतुर्थीत्यादि ज्ञापकाद् भविष्यति । किञ्चोक्तज्ञापकाद् रषोरन्तस्थकारो द्वितीयातृतीयाभ्यां वेति वचनाद् द्वित्रिभ्यां तीयस्त्रादेशश्च लभ्यत एव चेत्, सविकल्पान्यपि ज्ञापकानि भवन्ति इत्यन्तग्रहणं सूत्रत्रयं चेति टीका ।।३८५।
[समीक्षा]
'चतुर्, षष्, कति, कतिपय' शब्दों से पूरण अर्थ में चतुर्थः, षष्ठः, कतिथः, कतिपयथः' शब्दरूपों के साधनार्थ पाणिनि डट् प्रत्यय तथा थुक् आगंम करते हैं - "तस्य पूरणे डट्, षट्कतिकतिपयचतुरां थुक्" (अ० ५।२।४८, ५१)। कातन्त्रकार 'चतुर् - षष्' शब्दों से 'ड' प्रत्यय तथा थ -आगम का विधान, परन्तु 'कतिकतिपय' शब्दों से 'थ' प्रत्यय का निर्देश करते हैं – “संख्यायाः पूरणे डमौ, अन्तस्थो डे !ः, कतिपयात् कतेः" (२।६।१६, १९, २०) । इस प्रकार प्रक्रियागौरव उभयत्र समान है।